सामग्री पर जाएँ

मान्तस्थुर्नो अरातयः ॥

विकिसूक्तिः तः

मान्तस्थुर्नो अरातयः ॥ (ऋग्वेदः १०-५७-१)

[सम्पाद्यताम्]

अस्मासु विद्यमाना कृपणता विनष्टा भवतु

आदानप्रदानं जगतः निरन्तरनियमः । अनया पृष्ठभूम्या यदा अवलोकयेम तदा प्रकृतौ अनेकानि चक्राणि दृश्यन्ते (उदा - जलचक्रम्, आहारचक्रम् इत्यादीनि) । मानवं विहाय अन्ये सर्वेऽपि जीविनः, जडप्रकृतिः अपि स्वाभाविकतया एव आदानप्रदानचक्रे स्वीयं भागं निर्वहन्ति ।
मानवः अपि तथैव यदि व्यवहरेत् तर्हि तस्य, अन्येषामपि श्रेयस्करं स्यात् । किन्तु तथा करणस्य, अकरणस्य, अन्यथाकरणस्य च 'परिमितं स्वातन्त्र्यं' किञ्चन अस्ति खलु ! तस्मात् 'दातव्यम्' इति मनः निश्चिनोति चेदेव दानं शक्यं भवति !! स्वीकरणावसरे अविद्यमानः सङ्कोचः दानावसरे महदाकारेण उपस्थितः भवति ! अयमेव 'कृपणता'नामकः अन्तः विद्यमानः कश्चन शत्रुः । प्रदानं विना आदानं भवति चेत् आदानप्रदानचक्रम् अव्यवस्थितं भवति इत्येतत् सामान्यज्ञानमपि तत्र अदृश्यतां गच्छति । 'दीयते चेत् लुप्तं भवति खलु' इत्येषः स्वार्थभावः, आतङ्कः, अज्ञानञ्च अन्धकारमेव वर्धयति । आदानप्रदानचक्रे दत्तं सर्वमपि केनचित् रूपेण, कस्याश्चित् दिशायाः, कस्मिंश्चित् दिने प्रत्यागमिष्यति एव ! विश्वस्यताम् । यावदधिकं दीयेत तावत्या उत्तमरीत्या चक्रमिदं चलति ।