मा रुवण्यः ॥
दिखावट
मा रुवण्यः ॥ (ऋग्वेदः ८-९६-१२)
[सम्पाद्यताम्]कदापि मा रुद्यताम् ।
- रोदनकरणं बहु सुलभम् । मनः दुर्बलं चेत् रोदनं भवेत् । घटितं यत्किमपि स्यात्, अनुकूलकरमेव स्यात्, अन्यथा भावितञ्चेत् मनः दुर्बलं भवेत् । सन्निवेशाः अनुकूलकराः नो चेदपि सर्वत्र उत्तमताम् एव यदि पश्येत् तर्हि मनः दृढं तिष्ठेत् । रोदनेन अन्तःशक्तिः कुण्ठिता भवति । मनः दृढं यदि तिष्ठेत् तर्हि सन्निवेशस्य स्म्मुखीकरणशक्तिः, बुद्धिश्च विकसति । जीवनं नाम कष्टसुख-वेदना-मरणादिभिः युक्तम् इति यदि अवगम्येत तर्हि सम्मुखीकरणाय सिद्धाः भवामः । जीवनमिदं कुसुममार्गः इति भ्रमः यदि स्यात् तर्हि सर्वमपि भवेत् कष्टाय । सम्मुखीकरणस्य छलस्य अपेक्षया रोदनस्य दैन्यता वर्धते । 'यत्किमपि आपततु नाम, कदापि रोदनं न करवाम' इति सङ्कल्पः दृढः भवतु ।