सामग्री पर जाएँ

यत इन्द्र भयामहे ततो नो अभयं कृधि ॥

विकिसूक्तिः तः

यत इन्द्र भयामहे ततो नो अभयं कृधि ॥ (ऋग्वेदः ८-६१-१३)

[सम्पाद्यताम्]

इन्द्र ! यस्मात् भयं भवति ततः एव अभयं करोतु ।

अस्माकं मनस्सु विद्यमानानां भयानां गणना एव न विद्यते ! विविधानि, विचित्राणि च !! तस्मिन् परमैश्वर्यशालिनि परमात्मनि इयं प्रार्थना - भयं निवारय ! अभयं देहि ! इति । तस्य भगवतः अमूल्यम् ऐश्वर्यमेव ज्ञानम् । अन्धकारस्य भयम् अस्ति इति चिन्त्यताम् । तस्मिन् स्थले कुत्र कुत्र किं विद्यते ? कथमस्ति ? क्लेशानां साध्यता कियता प्रमाणेन विद्यते ? इत्यादयः विषयाः यदि ज्ञाताः भवन्ति तर्हि भयं तावता प्रमाणेन न्यूनं भवति । समय-सन्निवेशानां सम्पूर्णम् अवगमनं यदि स्यात् तर्हि आदौ येन भयम् अनुभूयते स्म तेनैव भयरहिता स्थितिः सम्भवति । व्यक्तेः भयम् इति चिन्त्यताम् । तस्याः व्यक्तेः गुणस्वभावानां, भाव-अवगमनादीनां परिचयः यदि भवेत् तदा अभयमेव ! कदाचित् परिस्थितेः अवगमनानन्तरमपि भयं न नश्यति । तस्य प्रथमं कारणं विद्यते - भयं स्वयं निवारितं न भवति इति । धैर्येण सम्मुखीकरवाम, परिश्राम्यामः । द्वितीयं कारणं भवति भयस्य निवारणाय अस्माकं शक्तेः न्यूनता । शक्तिं वर्धयेम । तावदेव !