यथा बीजं विना क्षेत्रम्...

विकिसूक्तिः तः

सुभाषितम्

यथा बीजं विना क्षेत्रम् उप्तं भवति निष्फलम् ।
तथा पुरुषकारेण विना दैवं न सिद्ध्यति ॥




तात्पर्यम्

बीजारोपणं विना क्षेत्रस्य वपनं यथा निष्फलं भवेत्
तथा पुरुषप्रयत्नेन विना भगवतः अनुग्रहः न प्राप्यते ।