युज्यस्ते सप्तपदः सखास्मि ॥

विकिसूक्तिः तः

युज्यस्ते सप्तपदः सखास्मि ॥ (अथर्ववेदः ५-११-१०)[सम्पाद्यताम्]

मिलित्वा सप्त पदानि स्थापितवान् अहं भवत्याः सुहृद् अस्मि ।

विशेषतया इदं वचनं विवाहसंस्कारावसरे उपयुज्यते । वधूवरौ एतेषां सप्त पदानां स्थापनानन्तरमेव पतिपत्न्यौ भवतः । गृहस्थाश्रमनामकस्य शकटस्य उभौ चक्रौ भवतः पतिपत्न्यौ । पतिपत्न्योः सम्बन्धः देव-दासीसम्बन्धः न । केषुचित् समाजेषु यथा स्यात् देवि-दाससम्बन्धोऽपि न । सः कश्चन विशिष्टः अन्त्यं यावत् अनुवर्त्यमानः सम्बन्धः । सर्वविधैः गोप्यरहस्यादिभिः मुक्तः कश्चन अपूर्वः स्नेहसम्बन्धः । जीवनसहवर्तिनः निमित्तम् आत्मनः इष्टानिष्टविषयेषु समञ्जनं, त्यागभावः च अत्र दरीदृश्यते । स्नेहे समानता सहजतया एव भवति । पृष्ट्वा प्राप्तिः अपि न, प्रश्नकरणानन्तरं दानमपि न, कीयतः निमित्तं कीयदिति गणनायुक्तमपि न !
अन्नाय इच्छाशक्त्यै च प्रथमं पदम् ।
स्वास्थ्याय द्वितीयं पदम् ।
साधनसम्पत्त्यै तृतीयं पदम् ।
उत्तमसन्तानाय पञ्चमं पदम् ।
नीतिनियमानां पालनाय षष्ठं पदम् ।
एतेषाम् आधारेण सख्यं स्नेहश्च ।