यैरेव ससृजे घोरं तैरेव शान्तिरस्तु नः ॥

विकिसूक्तिः तः

यैरेव ससृजे घोरं तैरेव शान्तिरस्तु नः ॥ (अथर्ववेदः १९-९-५)[सम्पाद्यताम्]

यैः विपत्तयः उत्पद्येरन् तैः एव शान्तिः भवतु ।

अस्माकं जीवने याः विपत्तयः दुर्घटनानि भवन्ति तेषां प्रमुखं कारणं भवति अस्माकम् इन्द्रियाणि, कामक्रोधादयश्च । आत्मनः साधनाभूतानि इन्द्रियाणि विहाय अस्माकं जीवनं न भवति । कामक्रोधादयस्तु प्रत्यणौ व्याप्तः रक्तगतः गुणः जातः अस्ति ! एतेषां निग्रहेण, शिक्षणदानेन एव शान्तिः, आत्मोन्नतिः च साधयितुं शक्या !! आत्मवशानि इन्द्रियाणि, हितकारिषु कामः, दुष्टताविषये कोपः, ज्ञानविषये लोभः, समस्तस्य विश्वस्य जीवराशेः विषये मोहः, सन्मार्गे चलनावसरे विचलितः न भवामि इति मदः, अन्येषाम् अपेक्षया अग्रेसरणरूपायाम् आरोग्यकरस्पर्धायां मात्सर्यश्च अस्माभिः अनुसर्तव्यः साधनामार्गः ।