यो जागार तमृचः कामयन्ते ॥

विकिसूक्तिः तः

यो जागार तमृचः कामयन्ते ॥ (ऋग्वेदः 5-44-14)[सम्पाद्यताम्]

यः जागरितः तं ज्ञानम् इच्छति

निद्राणेन परितः आत्मनि प्रचाल्यमानं किमपि न ज्ञायते एव । निद्रा न करणीया इति न तस्य अर्थः । शरीरयन्त्रं समीचीनतया कार्यकरणाय यावती विश्रान्तिः अपेक्षिता तावती अवश्यं दातव्या एव । सर्वदा उत्साहः स्यात् । इयं जागरा एकस्तरीया । जाग्रदावस्थायां, निद्रावस्थायां वा भवतु बुद्धिः निद्राणा एव स्यात् ! किं कुत्र किमर्थं कथं कति इत्यादिषु विषयेषु चिन्तनं योजनां वा अकृत्वा पूर्वजैः कृतमिव कस्यचित् तोषणाय, केनचित् सह स्पर्धायै वा कार्याणि यदा क्रियन्ते तदा कर्तुः बुद्धिः गाढनिद्रावस्थायां विद्यते इत्येव अर्थः !
सत्यस्य अवगमनम्, अवगमनानुगुणम् आचरणम्, आचरणमिव वाचः इत्येते ज्ञानमार्गस्य निर्धारकांशाः । बुद्ध्या यः जागरितः सः ज्ञानमार्गमेव कामयते । अथवा ज्ञानमेव तादृशं जागरितं जनम् इच्छति !!