रामकृष्णपरमहंसः
दिखावट
श्री रामकृष्णपरमहंसः (फेब्रवरी १८, १८३६ - आगस्ट् १६, १८८६) भारतीयः धर्मगुरुः, भक्तिमार्गस्य प्रतिपादकः, अद्वैतवेदान्तस्य बोधकश्च । तस्य बोधनस्य सङ्घटनरूपमेव रामकृष्णसङ्घः यच्च तदीयेन प्रसिद्धेन शिष्येण स्वामी विवेकानन्देन संस्थापितम् ।
अमृतवचनानि
[सम्पाद्यताम्]- नारायणस्वरूपस्य मानवस्य पूजा क्रियताम् । दयादर्शनस्य अधिकारः अस्मासु न विद्यते, परमेश्वरमात्रे विद्यते । पूजाकरणस्य अधिकारमात्रं विद्यते अस्माकम् ।
- ज्ञानम् ऐक्याय किन्तु अज्ञानं भवति विकल्पाय ।
- भगवान् बाह्यः दूरस्थः इत्येतत् अज्ञानम् । देवः अन्तर्निहितः इत्येतदेव यथार्थं ज्ञानम् ।
- (Hindu Psychology : Its Meaning for the West (१९४६) स्वामी अखिलानन्दः, पृ २०४)
- ज्ञानस्य विषये शाश्वतस्य परमानन्दस्य विषये ध्यायताम् । शाश्वतः सः आनन्दः अज्ञानेन आवृत्तः अस्ति । इन्द्रियव्यामोहः यावता प्रमाणेन न्यूनः भगवतः विषये तावती प्रीतिः अधिका भविष्यति ।
- (Hindu Psychology : Its Meaning for the West (१९४६) स्वामी अखिलानन्दः, पृ २०४)
- भगवतः कस्मिंश्चित् अंशे श्रद्धा पर्याप्ता । निराकारब्रह्मणि यदि श्रद्धा, उत्तममेव । किन्तु भवदीया श्रद्धा एव समीचीना, अन्याः असमीचीनाः इति कदापि न भाव्यताम् । सम्यक् अवगच्छतु यत् निराकारब्रह्म अपि सत्यः, साकारः अपि सत्यः एव इति । यत्र भवतः श्रद्धा सः भावः भवतु दृढः ।
- (Ramakrishna and His Disciples (१९६५) क्रिस्टोफर् ईशर्वुड्, पृ २६३)
- यस्मिन् अवमानं, द्वेषः, भयञ्च विद्यते तेन भगवद्दर्शनं प्राप्तुम् अशक्यम् ।
- महापुरुषाः बालस्वभावयुक्ताः । देवस्य पुरतः ते सदा बालाः, अतः एव ते अभिमानात् मुक्ताः । तेषां शक्तिः स्वीया न अपि तु देवस्य एव । सा दैवाधीनं, देवात् प्राप्तम् ।
- देवस्य नामस्मरणं कुरु, तस्य भजनं कुरु, सत्सङ्गे भव । तदा तदा दैवभक्तैः मुनिजनैश्च मिल । सर्वदा प्रापञ्चिककार्येषु उत्तरदायित्वेषु निमग्नं मनः देवस्मरणे मग्नं भवितुं नार्हति । अतः असकृत् एकान्तस्थले दैवस्मरणं कुर्यात् ।
- रात्रौ आकाशे बहूनि नक्षत्राणि दृश्यन्ते, किन्तु सूर्योदयात् परं न । अतः दिवा नक्षत्राणि न विद्यन्ते इति किं वक्तुं शक्यम् ? हे मानव, अज्ञानयुक्तेषु दिनेषु देवः न दृश्यते इत्यतः देवः न विद्यते इति कदापि न कथ्यताम् ।
- भगवन्निमित्तं ज्येष्ठानां निराकरणं न दोषाय । भरतः रामाय कैकेय्याः निराकरणम् अकरोत् । कृष्णदर्शनाय गोपाः पत्युः निराकरणम् अकुर्वन् । प्रह्लादः हरेः निमित्तं पितरं निराकृतवान् ।
- केचन क्षीरस्य विषये श्रुतवन्तः । अन्ये केचन क्षीरं दृष्टवन्तः । अपरे केचन क्षीरस्य आस्वादनं कृतवन्तः । क्षीरस्य दर्शनेन भवान् सन्तोषम् अनुभवति । क्षीरस्य पानेन भवान् शक्तिशाली दृढश्च भविष्यति । देवस्य दर्शनेनैव भवान् शान्तिं प्राप्स्यति । तेन सह सम्भाषणेनैव भवान् आनन्दं शक्तिञ्च प्राप्स्यति ।
- अहं सर्वेषां शिष्यः । सर्वे देवस्य पुत्राः । सर्वे तस्य सेवकाः ।
- ज्ञानं पुरुषः इव, भक्तिः स्त्री इव । ज्ञानस्य प्रवेशः देवस्य स्वागतप्रकोष्ठपर्यन्तमात्रं भवति । किन्तु प्रीतिः तस्य अन्तर्गृहमपि प्रवेष्टुम् अर्हति ।
- पवित्रं ज्ञानं पवित्रं प्रेम च समानमेव । उभौ अपि साधकं समानलक्ष्यं प्रति नयतः । प्रेममार्गः नितरां सुलभतरः ।