रामायण

विकिसूक्तिः तः
Jump to navigation Jump to search

रामायणम् आदिकव्यम् इति प्रसिद्धम्। इतिहासग्रन्थः इत्यपि भाव्यते एतत्। एतस्य ग्रन्थस्य रचयिता वाल्मीकिः। किरातकुले उत्पन्नः सः नारदस्य उपदेशात् तपः अकरोत्। तस्य शरीरम् आवृत्य वल्मीकः उत्पन्नः। ततः सः बहिः आगतः इत्यतः तस्य नाम् 'वाल्मीकिः' इति काचित् कथा श्रूयते।

  • आहुः सत्यं हि परमं धर्मं धर्मविदो जनाः
  • दुर्लभं हि सदा सुखं
  • रामो द्विर्नाभिभाषते
  • गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ।

उत्पथं प्रतिपन्नस्य कार्यं भवति शासनम्॥।

  • विक्लवो वीर्यहीनो यः स दैवमनुवर्तते।

वीराः सम्भावितात्मानो न दैवं पर्युपासते॥

  • यो हि दत्वा द्विपश्रेष्ठं कक्ष्यायां कुरुते मनः ।

रज्जुस्नेहेन किं तस्य त्यजतः कुञ्जरोत्तमम्॥

  • नातन्त्री विद्यते वीणा नाचक्रो विद्यते रथः।

नापतिः सुखमेधेत या स्यादपि शतात्मजा॥

  • शोको नाशयते धैर्यं शोको नाशयते श्रुतं।

शोको नाशयते सर्वं नास्ति शोकोसमो रिपुः॥

  • यदन्नः पुरुषो भवति तदन्नास्तस्य देवताः
  • कुलीनमकुलीनं वा वीरं पुरुषमानिनं ।

चारित्रमेव व्याख्याति शुचिम् वा यदि वाऽशुचिम् ॥

  • उद्विजन्ते यथा सर्पात् नरादनृत वादिनः
  • सत्यमेवेश्वरो लोके सत्ये धर्मः समाश्रितः
  • न सुप्रतिकरं तत्तु मात्रा पित्रा च यत्कृतं
  • लक्ष्मी चन्द्रादपेयाद्वा हिमवान् वा हिमं त्यजेत्

अतीयाद्सागरो वेलां न प्रतिज्ञामहं पितुः

  • धर्मादर्थः प्रभवति धर्मात् प्रभवते सुखं।

धर्मेण लभते सर्वं धर्मसारमिदं जगत् ॥

  • आत्मानं नियमैः तैस्तैः कर्शयित्वा प्रयत्नतः ।

प्राप्यते निपुणैर्धर्मो न सुखात् लभते सुखम् ॥

  • अनागतविधानं तु कर्तव्यं शुभमिच्छता।

आपदाशंकमानेन पुरुषेन विपश्चिता ॥

  • कर्म लोकविरुद्धं तु कुर्वाणं क्षणदाचर।

तीक्ष्णं सर्वजनो हन्ति सर्पं दुष्टमिवागतम् ॥

  • न चिरं पापकर्माणः क्रूराः लोकजुगुप्सिताः ।

ऐश्वर्यं प्राप्य तिष्ठन्ति शीर्णमूलाः इव द्रुमाः॥

  • न चिरात् प्राप्यते लोके पापानां कर्मणां फलं।

सविषाणामिवान्नानां भुक्तानां क्षणदाचर॥

  • परदाराभिमर्शात्तु नान्यत् पापतरं महत्
  • स भारः सौम्य भर्तव्यो यो नरं नावसादयेत् ।

तदन्नमपि भोक्तव्यं जीर्यते यदनामयम् ॥

  • यत्कृत्वा न भवेत् धर्मो न कीर्तिर्न यशो ध्रुवं।

शरीरस्य भवेत् खेदः कस्तत्कर्म समाचरेत् ॥

  • मुमुर्षूणाम् तु सर्वेषाम् यत्पथ्यं तन्न रोचते
  • उत्साहो बलवानार्य नस्त्युत्साहात् परं बलं।

सोत्साहस्यहि लोकेषु न किञ्चिदपि दुर्लभं ॥

  • दु:खितः सुखितो वापि सख्युर्नित्यं सखा गतिः ।
  • ज्येष्ठ भ्राता पिता वापि यश्च विद्यां प्रयच्छति ।

त्रयो वै पितरो ज्ञेयाः धर्मे च पथि वर्तिनः ॥

  • अर्थीनाम् उपपनानां पूर्वं चाप्युपकारिणां।

आशाम् सम्श्रुत्य यो हन्ति स लोके पुरुषाधमः॥

  • गोघ्ने चैव सुरापे च चौरे भग्नव्रते तथा ।

निष्कृतिर्निहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ॥

  • न कश्चिन्नापराध्यति
  • अनिर्वेदं च दाक्ष्यं च मनसश्चापराजयं

कार्य्सिद्धिकराण्याहुः

  • न विषादे मनः कार्यं विशादो दोषवत्तरः।

विषादो हन्ति पुरुषं बालं क्रुद्ध इवोरगः॥

  • अनिर्वेदः श्रियो मूलं अनिर्वेदः परं सुखं
  • विनाशे बहवो दोषाः जीवन्नाप्नोति भद्रकं
  • धिगस्तु परवश्यताम्
  • दृश्यमाने भवेत् प्रीतिः सौहृदं नास्त्यदृश्यतः
  • कल्याणी बत गाथेयं लौकिकी प्रतिभाति मे ।

एति जीवन्तमानन्दो नरं वर्षशतादपि॥

  • आनृशंस्यं परो धर्मः
  • न साम रक्षस्सु गुणाय कल्पते

न दानमर्थोपचितेषु युज्यते

  • कोपं न गच्छन्ति हि सत्त्ववन्तः
  • वाच्यावाच्यं प्रकुपितो न विजानाति कर्हिचित्।

नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते क्वचित् ॥

  • नाग्निरग्नौ प्रवर्तते
  • निरुत्साहस्य दीनस्य शोकपर्याकुलात्मनः

सर्वार्थाः व्यवसीदन्ति व्यसनं चाधिगच्छति

  • मन्त्रमूलं च विजयं प्रवदन्ति मनस्विनः
  • जानामि शीलं ज्ञातीनां सर्वलोकेषु राक्षस!

हृष्यन्ति व्यसनेष्वेते ज्ञातीनाम् ज्ञातयस्सदा॥

  • यथा पुष्करपत्रेषु पतितास्तोयबिन्दवः ।

न श्लेषमभिगच्छन्ति तथानार्येषु सौहृदम्॥

  • आकारः छाद्यमनोऽपि न शक्यो विनिगूहितुं।

बलाद्धि विवृणोत्येव भावमन्तर्गतं नृणाम् ॥

  • गर्जन्ति न वृथा शूराः निर्जला इव तोयदा:।
  • यः स्वपक्षं परित्यज्य परपक्षं निषेवते।

स्वपक्षे च क्षयं याते पश्चात्तैरेय हन्यते॥

  • परस्वानां च हरणं परदाराभिमर्शनं

सुहृदामतिशंका च त्रयो दोषाः क्षयावहाः

  • देशे देशे कलत्राणि देशे देशे च बांधवाः ।

तं तु देशं न पश्यामि यत्र भ्राता सहोदरः॥

  • न हि प्रतिज्ञां कुर्वन्ति वितथां सत्यवादिनः

लक्षणं हि महत्त्वस्य प्रतिज्ञा परिपालनम्

  • पतिव्रतानां नाकस्मात् पतन्त्यश्रूणि भूतले
  • धारणाद्धर्ममित्याहुः धर्मेण विधृताः प्रजाः
  • क्रोधः प्राणहरो शत्रुः क्रोधो मित्रमुखो रिपुः।

क्रोधोह्यसिर्महातीक्ष्णः सर्वम् क्रोधोऽपकर्षति॥

  • न सा सभा यत्र न सन्ति वृद्धाः

वृद्धा न ते ये न वदन्ति धर्मं । नासौ धर्मो यत्र न सत्यमस्ति न तत्सत्यं यच्छलेनानुविद्धम् ॥

  • तपो हि परमं श्रेयः सम्मोहमितरत्सुखम्
  • कौसल्यासुप्रजा राम पूर्वा संध्या प्रवर्तते ।

उत्तिष्ठ नरशार्दूल कर्त्तव्यं दैवमाह्निकम् ॥

बाह्यसंबन्धनानि[सम्पाद्यताम्]

w:sa
विकिपीडियायाम् एतत्सम्बद्धः लेखः -
"https://sa.wikiquote.org/w/index.php?title=रामायण&oldid=2843" इत्यस्माद् पुनः प्राप्तिः