विशं विशं मघवा पर्यशायत ॥

विकिसूक्तिः तः
Jump to navigation Jump to search

विशं विशं मघवा पर्यशायत ॥ (ऋग्वेदः ४-१६-२)[सम्पाद्यताम्]

प्रत्येकस्य जनस्य अन्तः सः भगवान् विद्यते ।

भगवतः अस्तित्वम् अङ्गीकुर्वतः नाङ्गीकुर्वतः जनस्य अन्तरङ्गे सः भगवान् व्याप्तः अस्ति । बहिरङ्गे अपि सर्वत्र व्याप्तः अस्ति । तन्निमित्तम् अस्माकम् अनुमतेः आवश्यकता न विद्यते ! सा सार्वभौमविश्वचेतनशक्तिः ! इन्द्रियैः चिन्तनशक्त्या च युक्तम् इदं मानवशरीरम् आत्मने प्रदत्तम् अमूल्यम् उपायनम् । मातापितरौ निमित्तकारणमात्रम् । अण्डाणु-डिम्भाणोः संयोगे जीवाङ्कुरव्यवस्थायाः कारणीभूतौ न ! सामान्यतः नास्तिकाः जडविग्रहान् देवाः इति कथयन्तः, सर्वत्र विद्यन्ते इति च कथयन्तः भवन्ति । किन्तु अन्यत्र तस्य अन्वेषणाय देवालय-क्रैस्तालय-यवनालय-तीर्थक्षेत्राणां गमनं खण्डयन्ति । पुराण-पुण्यकथादीनि अपि खण्डयन्ति । तत् बुद्धिसङ्गतं, तर्कबद्धं, वैज्ञानिकञ्च विद्यते एव ! किन्तु अणुतः ब्रह्माण्डं यावत् व्याप्तायाः व्यवस्थायाः पृष्ठतः विद्यमानं निराकारं सर्वज्ञं सर्वशक्तं ज्ञानशक्ति-क्रियाशक्तिरूपं किं निराकर्तुं शक्यम् !!