विश्वायुर्धेह्यक्षितम् ॥

विकिसूक्तिः तः
Jump to navigation Jump to search

विश्वायुर्धेह्यक्षितम् ॥ (ऋग्वेदः १-९-७)[सम्पाद्यताम्]

न्यूनतारहितस्य पूर्णायुषः धारणं क्रियताम् ।

शतं वर्षाणि जीवनीयम् इति इच्छा तु भवेदेव । सर्वेषु इयम् इच्छा सहजतया एव भवति । कोपि मरणं न इच्छति । किन्तु तच्च जीवनं न्यूनताभिः युक्तं चेत्, ध्येयसाधनाभिः रहितं चेत् व्यर्थाय भवेत् । विशेषतया इदं मानवजीवनम् आत्मोन्नत्यै प्राप्तमस्ति । मनुष्येतरेषु जन्मसु इदं लक्ष्यं साधयितुम् अशक्यमेव । अयम् अवसरः यावान् दीर्घः तावान् उत्तमः । किन्तु सः अवसरः न्यूनतापूर्णः चेत् प्रयोजनाय न भवेत् । न्यूनता भौतिकसम्पत्तेः स्यात्, ज्ञानस्य वा स्यात् । भौतिकसम्पत्तेः न्यूनता अस्माकं न भवेत्, अन्यैः अनुभूयमानायाः न्यूनतायाः हेतुरूपाः अपि वयं न भवेम । अतः सामाजिकजीवने सरलता, असङ्ग्रहश्च नियमाः भवेयुः । आवश्यकतायाः अपेक्षया अधिकस्य सङ्ग्रहदुर्बुद्धिः निर्गच्छेत् । आवश्यकतायाः अपेक्षया विद्यमाना सम्पत्तिः विषायते ! प्रकृतेः सम्पत्तिः अवशिष्येत, सर्वेभ्यः संविभक्ता स्यात् । ज्ञानस्य न्यूनतायाः निवारणाय निरन्तरम् अध्ययनं, ज्ञानिनां सहवासः, अनुष्ठानम्, अनुभवादयः मार्गाः । एवं जीवनं यदि स्यात् तर्हि तत् उत्सवायेत ।