व्याकरणसूक्तयः (अर्थानुसारी शब्दप्रयोगः)

विकिसूक्तिः तः

<poem> नहि शब्दकृतेन नामार्थेन भवितव्यम् । अर्थकृतेन नाम शब्देन भवितव्यम् ।- महाभाष्यम् २.३.५०, वार्त्तिकम् ५ ;

कस्यचित् शब्दस्य कृते अर्थः संयोजनीयः नास्ति । प्रत्युत अर्थस्य आधारेण एव शब्दप्रयोगः क्रियते । अर्थात् शब्दप्रयोगः अर्थानुसारी भवति, अर्थस्य अवगामनाय एव शब्दप्रयोगः क्रियते । अर्थस्य विषये अवधानं विना कृतः शब्दप्रयोगः मौल्यहीनः भवति । अर्थहीनः भवति ।