व्याकरणसूक्तयः (पस्पशाह्निके विद्यमानाः)
अनुकरणं हि शिष्टस्य साधु भवति।
अभ्युपायः एव अपशब्दज्ञानं शब्दज्ञाने।
अर्थे शब्दाः प्रयुज्यन्ते।
असन्देहार्थं च व्याकरणम्।
उदाहरणं, प्रत्युदाहरणं, वाक्याध्याहारः इति एतत् समुदितं व्याख्यानं भवति।
चतुर्भिश्च प्रकारैः विद्या उपयुक्ता भवति – आगमकालेन, स्वाध्यायकालेन, प्रवचनकालेन, व्यावहारकालेन इति।
दुष्टान्शब्दान् मा प्रयुक्ष्महि।
दृश्यन्ते हि कृतप्रयत्नाः च अप्रवीणाः, अकृतप्रयत्नाश्च प्रवीणाः।
द्विगता अपि हेतवो भवन्ति, तद्यथा – आम्राश्च सिक्ताः पितरश्च प्रीणिताः इति ।
प्रतीतपदार्थको लोके ध्वनिः शब्द इत्युच्यते।
भद्रैषां लक्ष्मीर्निहिताधिवाचि।
मङ्गलादीनि हि शास्त्राणि प्रथन्ते वीरपुरुषकाणि च भवन्ति, आयुष्मत्पुरुषकाणि च , अध्येतारश्च सिद्धार्थाः यथा स्युः इति।
महान् हि शब्दस्य प्रयोगविषयः।
यो हि उत्सूत्रं कथयेत्, नादो गृह्येत।
यो हि शब्दान् जानाति, अपशब्दान् अपि असौ जानाति।
योऽपशब्दान् जानाति, शब्दान् अपि असौ जानाति।
(व्याकरणशास्त्रस्य) रक्षा-ऊह-आगम-लघु-असन्देहाः प्रयोजनम्।
लघीयान् शब्दोपदेश:।
वाङ् नः विवृणुयाद् आत्मानम् इति अध्येयं व्याकरणम्।
व्याक्रियते अनेन इति व्याकरणम्।
शब्देन एव अर्थोऽभिधेयः, नापशब्देन।इत्येवं क्रियमाणम् अभ्युदयकारि भवतीति।
शब्दो लक्ष्यः, सूत्रं लक्षणम्।
शास्त्रपूर्वकं यः शब्दान् प्रयुङ्कते, सोऽभ्युदयेन युज्यते।
समाने चार्थे शास्त्रान्वितो अशास्त्रान्वितस्य अर्थस्य निवर्तको भवति।