शिक्षा णो अस्मिन् पुरुहूत यामनि ॥

विकिसूक्तिः तः
Jump to navigation Jump to search

शिक्षा णो अस्मिन् पुरुहूत यामनि ॥ (ऋग्वेदः ७-३२-२६)[सम्पाद्यताम्]

हे अत्यन्तस्तुत्य ! जीवनपथे अस्मभ्यं शिक्षणं देहि ।

भवतः गुरुः कः ? कश्चन जनः । तस्य गुरोः गुरुः कः ? अपरः जनः । अस्याः प्रश्नावल्याः अन्त्यं कुत्र ? आदिगुरुः सः परमात्मशक्तिः । शुद्धान्तःकरणस्य परमात्मज्ञानं स्फुरति । अन्येभ्यः मूलेभ्यः प्राप्तस्य ज्ञानस्य अपेक्षया इदं ज्ञानम् उत्कृष्टं भवति । अस्माभिः अन्विष्यमाणः आनन्दः यदि प्राप्तव्यः तर्हि तस्य परमगुरोः मार्गदर्शनानुसारम् अस्माकं जीवनं भवेत् । किंकर्तव्यमूढस्थितौ सर्वैः सः भगवान् एव आहूयते ! नामानि विभिन्नानि स्युः, किन्तु भावः एकः एव !! मानवाः स्वीयं जीवनपथं मानवधर्मस्य आधारेण एव अभिजानीयुः । मानवीयतायाः सारः सकलजीविनां विषये अनुकम्पः, अहिंसा, प्रेम, त्यागः, मैत्री च । आत्मा भिन्नः, शरीरं भिन्नम् । आत्मनः साधनम् इदं शरीरम् । इदं साधनं पुरातनं यदि भवेत् तदा इदं परित्यज्य (मरणम्) नूतनं साधनं (जन्म) स्वस्य योग्यतानुसारं प्राप्नोति अयम् आत्मा । अतः मरणात् भीतिः अनुभोक्तव्यः नास्ति !!! किंकर्तव्यतामूढस्थितौ एते विषयाः यदि स्मर्यन्ते तर्हि कश्चन प्रकाशः दृश्येत एव । इदमेव शिक्षणम् इति कथ्यते ।