सखा नो असि परमं च बन्धुः ॥

विकिसूक्तिः तः
Jump to navigation Jump to search

सखा नो असि परमं च बन्धुः ॥ (ऋग्वेदः ४-१६-२)[सम्पाद्यताम्]

त्वमस्माकं श्रेष्ठं मित्रं बन्धुश्च असि ।

समाजे सर्वैः सह सम्मिल्य समञ्जनपूर्वकं जीवनम् अस्माकं सर्वेषां सहजम् एव । एकाकिता घोरदण्डनाय एव । अस्माकं मित्राणि, बान्धवान्, जडविग्रहान् च रक्षकशक्तिः इति अभिजानीमः । सर्वाणि मित्राणि, बान्धवाः, जडविग्रहाश्च उत्तमाः इत्येव चिन्तयामः । तथापि यदा अस्य जन्मनः अन्त्यं भवति तदा समग्रं बन्धुत्वं, मित्रत्वं, जडवस्तूनि च अस्तित्वरहितानि भवन्ति ! अग्रिमे जन्मनि पुनः नूतनाः सम्बन्धाः !! कति जन्मानि जातानि, तेषु कति स्नेहसम्बन्धाः उत्पन्नाः इति कः जानीयात् ? कः स्मरेत् ? किन्तु सा भगवच्छक्तिः सर्वेषु जन्मसु अस्माकं मित्रं बन्धुश्च आसीत् । तस्याः श्रेष्ठतायाः, परमशक्तेः अभिज्ञाने वयम् असफलाः । तस्य मार्गदर्शनस्य उपायनानां सदुपयोगे वयं पराजिताः स्मः । अधुना वा जागरिताः भवेम ।