सा प्रथमा संस तिर्विश्ववारा ॥

विकिसूक्तिः तः

सा प्रथमा संस तिर्विश्ववारा ॥ (यजुर्वेदः ७-१४)[सम्पाद्यताम्]

आदिसंस्कृतिरूपाः वेदाः सर्वैः ग्राह्याः ।

प्रत्येकं मानवः अपि काञ्चित् नीतिसंहितां संविधानं (लिखितम् उत अलिखितं) वा अनुसरन्नेव जीवति । अरण्यवासिनां नगरवासिनां वा भवतु समाजस्य सुव्यवस्थायाः निमित्तं काचित् न्यायव्यवस्था विद्यते एव । प्रत्येकस्मिन् समाजे अपि स्वीयाः सिद्धान्ताः, विश्वासाः, सम्प्रदायाश्च भवन्ति एव । एतेषां सर्वेषां मूलं वर्तते वेदाः एव !!
एतेषु प्राचीनज्ञानागारेषु मनुकुलस्य योग्या नीतिसंहिता, संविधानं, न्यायव्यवस्था च विद्यते । अत्र विद्यमानाः सिद्धान्ताः सत्योपेताः (परीक्ष्य ज्ञातुमर्हति)। आचरणानां विषये दत्तानि मार्गदर्शनानि परमवैज्ञानिकानि आरोग्यकराणि च विद्यन्ते (आचरणेन अनुभवग्राह्यम्)। जगतः बह्व्यः संस्कृतयः अस्मादेव मूलात् ज्ञानं प्राप्य, बहु परिवर्तनानां द्वारा विकृतिं प्राप्तवत्यः सन्ति । किन्तु मूलमिदं शुद्धं, सकलैः स्वीकरणयोग्यञ्च विद्यते ।