सुप्रजाः प्रजाभिः स्याम ॥

विकिसूक्तिः तः

सुप्रजाः प्रजाभिः स्याम ॥ (यजुर्वेदः ८-५२)[सम्पाद्यताम्]

उत्तमैः सन्तानैः उपेताः स्याम ।

पुत्राणां प्रसूतौ विशेषः नास्ति, पशुभिः अपि तत् क्रियते । ते पुत्राः उत्तमाः यदि भवेयुः, अस्माकम् अपेक्षया श्रेष्ठाः यदा भवेयुः तदा सार्थक्यम् अनुभूयते । पुत्राः अस्माकम् अपेक्षया अधिकं यदि अर्जयेयुः, सम्पत्तिं सम्पादयेयुः, पदवीः प्राप्नुयुः तर्हि ते श्रेष्ठाः इत्येषः अभिप्रायः सङ्कुचितार्थयुतः । अस्मदपेक्षया स्वस्थाः, ज्ञानिनः, अनुभविनः, परोपकारिणः, समाजे आदर्शभूताः, तुष्टाः, तोषयितारश्च भवेयुः चेत् ते एव 'सुप्रजाः' इति निर्दिश्यन्ते । एतादृशैः पुत्रपौत्रैः युक्तः सन्तः एतादृशान् पुत्रपौत्रान् प्राप्नुयाम । अयम् आशयः उत्तमः । किन्तु आशयमात्रेण तत् न भवति वास्तवम् । तत् वास्तवरूपं प्राप्नुयात् इति चेत् अस्माभिः केचन नियमाः अनुसर्तव्याः । अनुशासनबद्धं जीवनं भवेत् । स्वीयवचनव्यवहारादीन् निरन्तरं परिशीलयन्तः, दोषान् परिष्कुर्वन्तः, ज्ञानाभिवृद्धिं साधयन्तः वयमेव पुत्रपौत्रादीनां कृते आदर्शभूताः यदि भवेम तर्हि उपरि निर्दिष्टः आशयः सफलः भवेत् ।