सुभाषितरत्नकरण्डकम् (क्षान्तिकथा)

विकिसूक्तिः तः
Jump to navigation Jump to search

॥ अथ क्षान्तिकथा ॥

सर्वं एतत्सुचरितं दानं सुगतपूजनं ।
कृतं कल्पसहस्रैर्यत्प्रतिघः प्रतिहन्ति तत् । । १६७ । ।

न च द्वेषसमं पापं न च क्षान्तिसमं तपः ।
तस्मात्क्षान्तिं प्रयत्नेन भावयेद्विविधैर्नयैः । । १६८ । ।

मनः शमं न गृह्णाति न प्रीतिसुखं अश्नुते ।
न निद्रां न धृतिं याति द्वेषशल्ये हृदि स्थिते । । १६९ । ।

न द्विषन्तः क्षयं यान्ति यावज्जीवं अपि घ्नतः ।
क्रोधं एकं तु यो हन्यात्तेन सर्वद्विषो हताः । । १७० । ।

विकल्पेन्धनदीप्तेन जन्तुः क्रोधहविर्भुजा ।
दहत्यात्मानं एवादौ परं धक्ष्यति वा न वा । । १७१ । ।

जरा रूपवतां क्रोधः तमश्चक्षुष्मतां अपि ।
वधो धर्मार्थकामानां तस्मात्क्रोधं निवारयेत् । । १७२ । ।

मत्कर्मचोदिता ह्येते जाता मय्यपकारिणः ।
येन यास्यन्ति नरकान्मयैवैते हता ननु । । १७३ । ।

एतानाश्रित्य मे पापं क्षीयते क्षमतो बहु ।
मां आश्रित्य तु यान्त्येते नरकान्दीर्घवेदनान् । । १७४ । ।

अहं एवापकार्येषां ममैते चोपकारिणः ।
कस्माद्विपर्ययं कृत्वा खलचेतः प्रकुप्यसि । । १७५ । ।

मुख्यं दण्डादिकं हित्वा प्रेरके यदि कुप्यसि ।
द्वेषेण प्रेरितः सोऽपि द्वेषे द्वेषोऽस्तु मे वरं । । १७६ । ।

 । । इति क्षान्तिकथा । ।