सुभाषितरत्नकरण्डकम् (छत्त्रकथा)

विकिसूक्तिः तः


॥ अथ छत्त्रकथा ॥

गजतुरगपदातिस्यन्दनैः सप्तरत्नैर्
व्रजति सुतसहस्रैर्व्योम्नि यच्चक्रवर्ती ।
शशधरपरिवेषच्छत्त्ररुद्दार्कपादस्
तदपि फलं उदारं छत्त्रदानात्प्रसूतं । । ५९ । ।

वाचालप्रचलालिचक्रचरणव्यालोलपुष्पोत्करं
नानावर्णसुगन्धिभूरिकुसुमन्यासेन चित्रीकृतं ।
छत्त्रं चारुविचित्रपत्तसहितं चैत्याय यो यच्छति
प्राप्नोति क्षितिपार्चितं स हि चतुर्द्वीपेश्वरत्वं ध्रुवं । । ६० । ।

हेमच्छत्त्रतिरस्कृतार्ककिरणाः श्रीमद्विनीतद्विप
स्कन्धस्था बहुरत्नभूषणवराः शक्रर्द्धिविस्पर्धिनः ।
चातुर्द्वीपकचक्रवर्त्यवनिपा यद्यान्ति खे लीलया
तत्ताथागतधातुचैत्यकुसुमच्छत्त्रप्रदानात्फलं । । ६१ । ।

 । । इति छत्त्रकथा । ।