सुभाषितरत्नकरण्डकम् (पानकथा)

विकिसूक्तिः तः
Jump to navigation Jump to search

॥ अथ पानकथा ॥

प्रेङ्खन्नीलसरोजगर्भं अमलं यत्पद्मरागारुणं
काम्यं काञ्चनभाजने विनिहितं प्रालेयमिश्रं मधु ।
किंचित्ताम्रविलोचनप्रियतमाप्रत्यर्पितं पीयते
संगीतध्वनिसंगतं नरवरैस्तत्पानदानात्फलं । । ७३ । ।

यद्वैडूर्येन्द्रनीलप्रवरमणिचितैर्भाजनैः शातकौम्भैर्
देवा दिव्याङ्गनाभिः स्तनकलशभरव्याप्तवक्षःस्थलाभिः ।
पानं प्रीतिप्रसक्ताः सह मधु मधुरं माधवं वा पिबन्ति
प्रोक्तं प्राज्ञैः फलं तद्गुणनिचितगणे पानदानस्य रम्यं । । ७४ । ।

यत्पानं वर्णगन्धप्रभृतिगुणयुतं कल्पितं तृड्विनाशि
श्लेश्माघातोग्रवातप्रशमनचतुरं पिप्फलीखण्डचूर्णं ।
ग्रीष्मे प्रालेयभिन्नं शशिकरसदृशे भाजने संस्कृतं तद्
दत्त्वा संघाय भक्त्यामरभवनगतो दिव्यं आप्नोति पानं । । ७५ । ।

मधुमधुरं उदारं आदरेण प्रवरगणाय ददाति पानकं यः ।
दिवि भुवि सकले स पानं अग्र्यं पिबति चिरं प्रवराङ्गनोपनीतं । । ७६ । ।

श्रद्धाप्रसन्नमनसो भुवि ये मनुष्याः संघाय पानकवरं प्रदिशन्ति काले ।
संसारपर्वतदरीतटवाससंस्थास्ते प्राप्नुवन्ति सततं मधुरं सुपानं । । ७७ । ।

 । । इति पानकथा । ।