सुभाषितरत्नकरण्डकम् (पुण्यप्रोत्साहनकथा)

विकिसूक्तिः तः
Jump to navigation Jump to search

॥ अथ पुण्यप्रोत्साहनकथा ॥

मानुष्यं समवाप्य दुष्करशतैर्लब्ध्वा दुरापं क्षणं
मृत्यौ निष्प्रतिकारदारुणतरे नित्यं पुरःस्थायिनि ।
पाथेयं दमदानसंयममयं यैर्न प्रभूतं कृतं
संसारोग्रमरुप्रपातपतिताः प्राप्स्यन्ति दुःखानि ते । । १ । ।

मानुष्यं दुर्लभं प्राप्य विद्युत्संपातचञ्चलं ।
भवक्षये मतिः कार्या भवोपकरणेषु वा । । २ । ।

मनुष्यत्वं समासाद्य विद्युज्ज्वालोर्मिचञ्चलं ।
पुण्यं एवात्र कुर्वीत यतश्चिन्तामणिर्नृणां । । ३ । ।

यस्यानुभावान्मानुष्यं प्राप्तं भूयोऽपि सांप्रतं ।
पुण्यं तद्वर्ध्यस्वेह यस्माद्धेतुः सुखस्य ते । । ४ । ।

मानुष्यं यदुपाश्रयेण भवता लब्धं पुनः सांप्रतं
रूपौदार्यकुलोन्नतिप्रभृतिभिर्युक्तं विचित्रैर्गुणैः ।
तत्पुण्यं सुहृदेक एव जगतां बन्धुश्च जन्मान्तरे
तस्मात्तूर्णं इदं कुरु त्वं असकृत्सर्वार्थसंपत्करं । । ५ । ।

लक्ष्मीनिकेतं यदुपाश्रयेण प्राप्तोऽसि लोकाभिमतं प्रभुत्वं ।
तान्येव पुण्यानि विवर्धयेथा न कर्षणीयो ह्युपकारिपक्षः । । ६ । ।

विरमत पापतः कुरुत पुण्यं उदारतरं
दमयत दुर्दमं विषयलोलमनस्तुरगं ।
भवत मुनीन्द्रवत्परहिताभिरताः सततं
दशति न यावदेव मरणाहिरसह्यविषः । । ७ । ।

 । । इति पुण्यप्रोत्साहनकथा । ।