सुभाषितरत्नकरण्डकम् (प्रदीपकथा)

विकिसूक्तिः तः
Jump to navigation Jump to search



॥ अथ प्रदीपकथा ॥

धराधरतिरस्कृतं परमदूरदेशस्थितं
सुसूक्ष्मं अपि वस्तु चातितिमिरोत्करैरावृतं ।
कराग्र इव संस्थितं यदनिरुद्धभिक्षुर्दृशा
ददर्श सुगतस्य दीपपरिबोधनात्तत्फलं । । ९५ । ।

बुद्धत्वं किल सुगतः प्रदीपकेन व्याकार्षीन्ननु नगरावलम्बिकायाः ।
को दद्याद्भगवति न प्रदीपमालां प्राप्त्यर्थं विमलमुनीन्द्रलोचनस्य । । ९६ । ।

दूरं सूक्ष्मं व्यवहितं दृश्यं पश्यन्ति ये जनाः ।
जिनप्रदीपमालायास्तत्फलं मुनयो जगुः । । ९७ । ।

दृश्यन्ते यत्क्षितीशाः शशधरवपुषो दीर्घनीलोत्पलाक्षा
देवा यद्देवलोकं वरकनकनिभा भासयन्ति स्वकान्त्या ।
राजा यच्चक्रवर्ती मणिकिरणशतैर्भासयन्गां प्रयाति
तत्सर्वं दीपदानाद्भवति तनुभृतां शाक्यसिंहाय भक्त्या । । ९८ । ।

लोके यद्भान्ति मर्त्याः कुवलयनयनाः सुभ्रुवो हेमवर्णाः
शक्रो यद्देवराजो दशशतनयनो भाति दिव्यासनस्थः ।
यद्ब्रह्मा वीतकामः प्रवरसुरनतो भाति दिव्ये विमाने
दत्त्वा तद्दीपमालां प्रभवति सुफलं शास्तृचैत्ये नराणां । । ९९ । ।

 । । इति प्रदीपकथा । ।