सुभाषितरत्नकरण्डकम् (बिम्बकथा)
॥ अथ बिम्बकथा ॥
आढ्यो निर्नष्टशोकः क्षतसकलकलिर्लोचनानन्दपात्रं
सौभाग्यश्रीनिधानं समुपचितबलाक्रान्तगात्रो यशस्वी ।
तेजस्वी कान्तरूपः प्रवचनचतुरो दान्तसर्वेन्द्रियाश्वो
व्यक्तो धीमान्प्रदाता भवति भगवतो बुद्धबिम्बं विधाय । । ४६ । ।
यावन्तः परमाणवो भगवतः स्तूपेषु बिम्बेषु वा
तत्कर्तुर्दिवि भूतले च नियतं तावन्ति राज्यान्यपि ।
रूपारूप्यसमाधिसंपदखिलं भुक्त्वा च सर्वं सुखम्
अन्ते जन्मजराविपत्तिरहितं प्राप्नोति बौद्धं पदं । । ४७ । ।
द्वात्रिंशता भूषितचारुगात्रः सल्लक्षणैर्लक्षितचक्रवर्ती ।
भवेज्जिनोऽन्ते जितदोषशत्रुः ताथागतीं यः प्रतिमां विधत्ते । । ४८ । ।
इन्द्रियाणां अवैकल्यं स्त्रीत्वदुर्गतिदूरता ।
जन्म मानुष्यकं वंश उच्चैरादेयवाक्यता । । ४९ । ।
जातिः श्रुतिः स्मृतिर्धैर्यं अभिवाञ्छितसंपदः ।
स्थानेष्वभिनिवेशश्च रागादिभिरबाधना । । ५० । ।
संबोधिरिति जायन्ते विशेषाः साधुसंमताः ।
विधाय बुद्धप्रतिमां स्तूपं वा प्राणिनां सदा । । ५१ । ।
न याति दास्यं न दरिद्रभावं न प्रेष्यतां नापि च हीनजन्म ।
न चापि वैकल्यं इहेन्द्रियाणां यो लोकनाथप्रतिमां करोति । । ५२ । ।
। । इति बिम्बकथा । ।