सुभाषितरत्नकरण्डकम् (विचित्रकथा)

विकिसूक्तिः तः


॥ अथ विचित्रकथा ॥

यो धर्मरत्नं लिखतीह नित्यं शृणोति तच्चिन्तयते सदैव ।
संभावनां वा यदि चात्र कुर्याज्जातिस्मरत्वं लभते स नित्यं । । ११५ । ।

यद्देवलोके वरकल्पवृक्षाः सर्वार्थसंसिद्धिकरा भवन्ति ।
देवोत्तमानां सुखहेतुभूतास्तत्गोप्रदानस्य फलं विशालं । । ११६ । ।

यद्गर्भे परिपुष्टिं एति शुचिभिः प्रोन्नीयमानो रसैर्
बाल्ये यन्मधुसर्पिषी च पिबति क्षीरं च काले पुनः ।
भिन्नेन्दीवरकेसरद्युतियुतं पानं च यद्यौवने
वृद्धत्वे च यथेप्सितं वररसं तद्गोप्रदानोद्भवं । । ११७ । ।

सिंहासनं प्रमुदितो रुचिरं गणाय भक्त्या ददाति विधिवत्खलु यः स दाता ।
सिंहासनानि लभते प्रवराण्यभेद्यं वज्रासनं च सुरपन्नगसिद्धवन्द्यं । । ११८ । ।

सौवर्णपात्रे सततं नरेन्द्रा यत्क्षीरं अश्नन्ति रसादियुक्तं ।
लक्ष्मीसमृद्धाश्च नरीर्लभन्ते पद्माननास्तन्महिषीप्रदानात् । । ११९ । ।

यानप्रदानेन सदातुराणां सुदुर्बलानां वहनेन चैव ।
संमाननां वै कुरुते गुरूणां ऋद्धिं समाप्नोति नरस्तु तेन । । १२० । ।

अश्वैर्विचित्रैः सततं वहन्ति सुवर्णपत्त्रच्छुरितैर्नरेन्द्राः ।
ऋद्ध्या च गच्छन्ति सुदूरदेशं यानप्रदानात्तु तदेव मर्त्याः । । १२१ । ।

हारार्धहारैः कटकैरुपेताः क्रीडन्ति देवेषु मनोज्ञवर्णाः ।
सार्धं हि यत्तत्त्रिदशाधिपेन निःसङ्गदानात्प्रवदन्ति सन्तः । । १२२ । ।

भीतान्समाश्वासयते सदैव धीमान्नरो वाक्प्रतिपादनेन ।
सर्वैर्न मारैः परिभूयतेऽसौ वाक्यं च नित्यं मधुरं शृणोति । । १२३ । ।

यदर्हयन्तीह जिनस्य वाक्यैः क्लेशारिभङ्गैर्भुवि धर्मधातुं ।
संसारसौख्यं त्वनुभूय सर्वं धर्मेश्वरत्वं प्रवरं लभन्ते । । १२४ । ।

प्रतिश्रयं ते प्रदिशन्ति सन्तः सर्वत्र काले श्रमपीडितानां ।
ते यान्ति नाकं सततं प्रहृष्टाः शक्रेण सार्धं च सदा रमन्ते । । १२५ । ।

ये रोपयन्तीह सुकाननानि वृक्षांश्च पुष्पाणि च गन्धवन्ति ।
च्युत्वापि ते यान्ति दिवं मनुष्या उद्यानमालाद्युपभोगयुक्ताः । । १२६ । ।

कुर्वन्ति सेतुं विषमे प्रदेशे पानीयमध्येऽपि च ये मनुष्याः ।
स्वर्गं सदा भोगसमन्वितं हि यान्त्युत्तमं ते वरहेमगात्राः । । १२७ । ।

वापीतडागानि सुशोभनानि कृत्वा नराः स्वर्गं अवाप्नुवन्ति ।
इहैव लोके च मनुष्यभूता राज्यानि रम्याणि सुखावहानि । । १२८ । ।

कूपान्मठान्सत्त्वसमाश्रयांश्च वातातपत्राणनिमित्तभूतान् ।
ये कारयन्ति प्रवरान्मनुष्यास्ते देवभूताः सुखिनो भवन्ति । । १२९ । ।

छत्त्राणि ये वा प्रतिपादयन्ति सूर्यांशुतापेन सुदुःखितेषु ।
छत्त्रोपगास्ते जितशत्रुसंघा भवन्ति नित्यं वरसौख्ययुक्ताः । । १३० । ।

पादाश्रयं चित्रं उपानहौ च सर्वेषु सत्त्वेषु दिशन्ति भक्त्या ।
यानोत्तमैस्ते सुचिरं प्रयान्ति देवेषु मर्त्येसु सदोपपन्नाः । । १३१ । ।

शंसन्ति ये जिनवरं गुणकीर्तनेन कायप्रणामक्रियया च गुरूंश्च सर्वान् ।
संमाननां गुरुकुलात्समवाप्नुवन्ति जातिं तथैव वचनप्रतिसंविदं च । । १३२ । ।

मृदङ्गवीणापटहादिभिर्ये कुर्वन्ति पूजां सुगतोत्तमानां ।
मनुष्यभूताः सुमनोज्ञवाक्याः शृण्वन्ति शब्दान्सुमनोज्ञरूपान् । । १३३ । ।

यष्टिं समारोपयति प्रहृष्टश्छत्त्रं च घण्टां सुगतस्य चैत्ये ।
छत्त्रावलीं वा कुरुते स तेन लक्ष्मीं समाप्नोति नरो विशालां । । १३४ । ।

मनुष्यभूतो भुवि यः समन्तादीशत्वं आप्नोति बलेन युक्तः ।
केयूरमुक्ताभरणैरुपेतो भूमिप्रदानात्तदुशन्ति सन्तः । । १३५ । ।

बिम्बं करोति प्रवरं जिनस्य स्तूपं च वा छत्त्रवरैरुपेतं ।
धातुं समारोपयतीह यश्च स्वर्गं समाप्नोति नरस्तु तेन । । १३६ । ।

ये बुद्धं उद्दिश्य महान्ति नित्यं कुर्वन्ति मृद्गोमयलेपनानि ।
पुष्पं फलं भोजनपानकं वा यच्छन्ति ते राजबलं लभन्ते । । १३७ । ।

दीपानुदारान्विविधांश्च गन्धान्पुष्पाणि धूपं गुडपानकं वा ।
दिशन्ति संघस्य तथा च हेम भवन्ति ते देवसुखेन युक्ताः । । १३८ । ।

स्तूपाङ्गनं धातुवरं विहारं ये शोधयन्तीह नराः प्रयत्नैः ।
निर्माल्यं एभ्यश्च समुद्वहन्ति ते हेमवर्णाः सुदृशो भवन्ति । । १३९ । ।

उज्ज्वालिकां ये प्रदिशन्ति सद्भ्यः शीतागमे वस्त्रं अथापि गेहं ।
पानं विचित्रं वरकन्यकां वा ते जन्मभूमौ सुखिनो भवन्ति । । १४० । ।

दीर्घायुरेव भुवि सर्वरुजा विमुक्तः प्राप्नोति सौकःयं अतुलं सततं प्रहृष्टः ।
देवोद्भवानि विविधानि सुखानि भुङ्क्ते प्राणातिपातविरतः खलु यस्तु विद्वान् । । १४१ । ।

दृष्ट्वा परस्य विभवं न करोति चौर्यं गुप्तिं च यः प्रकुरुते परिरक्षणार्थं ।
प्राप्नोत्यसौ द्रविणसंपदं अप्रमेयां सर्वैस्तु तस्करनृपादिशतैरहार्यां । । १४२ । ।

दारान्परस्य परिवर्जयतीह योऽसौ दारानसौ लभत एव मनोज्ञरूपान् ।
शत्रूद्भवो न हि जनस्य कदा चिदेव लोकस्य वै भवति विश्वसनीय एव । । १४३ । ।

नीलोत्पलस्यैव यथा हि गन्धो मनोज्ञरूपः सततं प्रवाति ।
तद्वन्मनुष्यस्य हि वाति गन्धो मुखादसत्यं तु न वक्ति यश्च । । १४४ । ।

सन्मित्रसम्धिं नृपतेश्च पूजां भक्त्यान्वितं पुत्रकलत्रभृत्यं ।
भोगानुदारान्सुखं अप्रमेयं प्राप्नोति नित्यं पिशुनाद्विमुक्तः । । १४५ । ।

आनन्दशब्दं मधुरं शृणोति वाक्यानि नित्यं सुमनोज्ञकानि ।
देवेषु मर्त्येषु च जायतेऽसौ पारुष्यवाक्याद्विरतो नरो यः । । १४६ । ।

धर्मार्थसत्यनिरता खलु यस्य वाणी लोके सदा प्रियतमा भवतीह नित्यं ।
संपूजनां स लभते बहुरत्नजातैर्यायाच्च्युतो विबुधलोकं अनन्तसौख्यं । । १४७ । ।

स तीव्ररागो भवतीह नैव भोगैरुदारैः सततं च युक्तः ।
आदेयवाक्यः पृथुकीर्तियुक्तः परस्वतृष्णाविरतो हि यो वै । । १४८ । ।

प्रासादिकत्वं लभते स नित्यं स्फीतं सुखं राज्यधनादि लोके ।
ब्रह्मत्वं आसादयतीह सम्यङ्मैत्रस्य चित्तस्य वशान्मनुष्यः । । १४९ । ।

स्वर्गापवर्गं समवाप्तुकामैर्नरैस्तु नित्यं समुपार्जनीया ।
अस्तित्वदृष्टिः परमा हि यस्मात्सर्वस्य सा वै कुशलस्य मूलं । । १५० । ।

श्रद्धानिराकृतमतेर्न विरोहतीह पुण्यं ह्युदारभुवनत्रयसौख्यकारि ।
तस्मान्नरेण विदुषा सततं निषेव्या श्रद्धा समस्तगुणरत्ननिधानभूता । । १५१ । ।

श्रद्धा शुभस्य जननी जननी यथैव सैवादितो मनसि साधुजनैर्निवेश्या ।
श्रद्धाकरेन रहितो न हि बोधिपक्षसद्धर्मरत्ननिकरग्रहणे समर्थः । । १५२ । ।

भ्रष्टो यथाधिपत्यादैश्वर्यफलानि न ह्यवाप्नोति ।
श्रद्धेन्द्रियविभ्रष्टो न तथार्यफलान्यवाप्नोति । । १५३ । ।

तस्मान्नरेण विदुषा सुगतादिकेषु कार्यं मनःप्रसदनं सततं हितेषु ।
निःशेषदोषशमनाय न चान्यदस्ति श्रद्धा यथा दहति दोषगणं समस्तं । । १५४ । ।

दीनाः कुवासवो मूढाः कपालाङ्कितपाणयः ।
दर्शयन्त्येव लोकस्य ह्यदातुः फलं ईदृशं । । १५५ । ।

दग्धस्थूणसमुच्छ्रयाः प्रतिगृहं प्रेतोपमा भैक्षुकाः
शश्वत्क्षुद्विहता भ्रमन्ति यदमी देहीति बाहूच्छ्रिताः ।
दूरोपद्रुतसारमेयनिवहा व्यावृत्य तिष्ठन्त्यपि
प्रायोऽल्पं सकृदप्यमीभिरशनं दत्तं न कस्मै चन । । १५६ । ।

सूचीमुखाः कुहरनेत्रविशुष्कगात्राः केशाम्बरा रविकरैः परिपीतभासः ।
प्रेताः सदा सलिललालसया यदार्तास्तत्पानदानविकलस्य फलं वदन्ति । । १५७ । ।

दानं सर्वसुखं महाभयहरं भाग्यं महच्चार्थदं
नानाकारविशालकौशलपदं सर्वैर्गुणालंकृतं ।
तस्माद्दानं अनेकदोषशमनं संसारघोरापहं
क्षुत्तृष्णादिसुशोषणं शुभकरं कुर्युर्नरा यत्नतः । । १५८ । ।

 । । इति विचित्रकथा । ।