सुभाषितरत्नकरण्डकम् (विहारकथा)

विकिसूक्तिः तः


॥ अथ विहारकथा ॥
सर्वर्तुरम्यवरहर्म्यतले नरेन्द्राः संगीतिगर्भजयजीवगिरा रमन्ते ।
शुद्धान्तवारवनिताभिरशीततायाश्चातुर्दिशार्ययतिसंघविहारदानात् । । १०० । ।

बुद्धप्रचोदनवचोऽपि मुनेरशेषं आरोच्य सार्ययतिसंघविहारहेतोः ।
यज्जाग्रतोऽपि चरतः स्वपतः स्थितस्य पुण्याभिवृद्धिरुपरिप्रभवाप्रमाणा । । १०१ । ।

प्रज्ञावज्रप्रहारप्रविदलितकलिक्ष्माधरस्य प्रसादात्
संघस्योद्दिश्य सर्वोपकरणसुभगं यो विहारं करोति ।
प्रासादे वैजयन्ते प्रवरमणिमये स्तम्भभित्तौ प्रियाभिः
सार्धं सर्वर्तुरम्ये चिरं अभिरमते देवलोके स एव । । १०२ । ।

श्रीमद्वितानवरपङ्कजचित्रवस्त्रं नीलादिसंस्थगितभित्तिगृहं प्रधानं ।
दत्त्वा गणाय गुणिने प्रवराय शाक्रं प्रासादरत्नं अधिगच्छति वैजयन्तं । । १०३ । ।

 । । इति विहारकथा । ।