सुभाषितरत्नकरण्डकम् (शीलकथा)

विकिसूक्तिः तः
Jump to navigation Jump to search


॥ अथ शीलकथा॥

यथाम्बुपूर्णः सभुजङ्गमो ह्रदः प्रफुल्लशाखश्च सकण्टको द्रुमः ।
श्रुतेन वित्तेन कुलेन चान्वितस्तथाविधः शीलपराङ्मुखो जनः । । १५९ । ।

वरं दरिद्रोऽपि सुशीलवान्भवेन्न चार्थवानप्यनलंकृतो गुणैः ।
दरिद्रभावेऽपि हि सज्जनः स्तुतो रसो गुणानां अमृताद्विशिष्यते । । १६० । ।

संमानयन्ति गुरवो गुणवन्तं आर्यं तेजस्विनोऽपि धनिनोऽपि मनस्विनोऽपि ।
तस्मान्नरो नरपतेरपि यः सकाशात्संमानं इच्छति स रक्षतु शीलं एव । । १६१ । ।

लोके सुखं विषयजं सभयं सवैरं धर्मात्मनः कृतमतेः सुखं उत्तमं तु ।
तस्मान्नरः सुखं उदारं अहार्यं आर्यं यः प्राप्तुं इच्छति स रक्षतु शीलं एव । । १६२ । ।

यो भ्रष्टशीलविनयस्य विनाशकाले त्रासः समाविशति शीलवतो न सोऽस्ति ।
तस्मात्प्रहृष्टविनयः परलोकं अन्ते यो गन्तुं इच्छति स रक्षतु शीलं एव । । १६३ । ।

शीलेन निश्चयदृढेन दिवं प्रयाति नात्मक्लमेन न कुदृष्टिकृतैर्विमार्गैः ।
तस्मादृतेऽपि वनवासं ऋतेऽपि लिङ्गं यः स्वर्गं इच्छति स रक्षतु शीलं एव । । १६४ । ।

शीलं विनाशहरणावरणादिरक्षा शीलं धनं परमं आर्यं अहार्यं अन्यैः ।
शीलं स्थिरं व्युपशमेऽप्यनुगामि मित्रं शीलं विभूषणं ऋतेऽपि विभूषणेभ्यः । । १६५ । ।

न ह्यस्ति शीलसदृशं हितकारि मित्रं स्निग्धाशयो न खलु शीलसमोऽस्ति बन्धुः ।
माता पिता च तनयाय विधातुं इच्छेद्यः शीलं ऊर्जितफलं हितं आदधातु । । १६६ । ।

 । । इति शीलकथा । ।