सुभाषितरत्नकरण्डकम् (स्नानकथा)

विकिसूक्तिः तः

॥ अथ स्नानकथा ॥

नानागन्धैः सुगन्धैः स्नपयति सुगतं पुष्पधूपाङ्गरागैर्
यो वा पूजां करोति प्रमुदितमनसा श्रव्यवादित्रशब्दैः ।
मन्दाकिन्यां विजृम्भत्कनकमयसरोजस्य किञ्जल्करेणु
व्याप्तायां स्नाति सोऽन्ते सकलकलिमलक्षालितो याति मोक्षं । । ५३ । ।

दिव्यस्त्रीपीनतुङ्गस्तनजघनघनाघातविक्षोभितायां
जृम्भज्जाम्बूनदाब्जच्युतसुरभिरसोद्गारगन्धं क्षिपत्यां ।
मन्दाकिन्यां सुरौघाः प्रतिदिनं उदकक्रीडया यद्रमन्ते
नानागन्धोदकेन स्नपनफलं इदं बुद्धभट्टारकस्य । । ५४ । ।

मृगमदचन्दनं विधुसुकुङ्कुमसेव्यरसं
सुरभिमनोरमासितसितारुणपीतरुचि ।
स्नपनं इदं य एव विदधाति मुनेर्मनुजः
स भवति वीतमानसमलो जगुरस्तमलाः । । ५५ । ।

 । । इति स्नानकथा । ।