सूक्तयः (सकारादिः)
दिखावट
- सङ्कटे यद् विसृज्येत, न तत् तत्त्वं, रुचि: तु सा॥
- स तु भवति दरिद्रो यस्य तृष्णा विशाला।
- सतां हि वाणी गुणमेव भाषते ।
- सत्यश्रमाभ्यां सकलार्थसिद्धिः ।
- सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यमप्रियम्।
- समूलो वा परिशुष्यति यदनृतं वदति ।
- सर्वः स्वार्थं समीहते।
- सर्वथा सुकरा मैत्री, दुष्करं परिपालनम् ।
- सर्वमतिमात्रं दोषाय ।
- सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग्भवेत्।
- सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः।
- सर्वेषामपि शौचानाम् अर्थशौचं परं स्मृतम् ।
- सर्वेषु भूतेषु दया हि धर्मः ।
- सहते विपत्सहस्रं मानी नैवापमानलेशमपि ।
- सहसा विदधीत न क्रियाम् अविवेकः परमापदां पदम् ।
- सिद्ध्यन्ति कुत्र सुकृतानि विना श्रमेण ?
- सुतप्तमपि पानीयं शमत्येव पावकम्।
- सुदुर्लभाः सर्वमनोरमा गिरः ।
- सुलभा रम्यता लोके दुर्लभं हि गुणार्जनम् ।
- सुलभो हि द्विषां भङ्गः दुर्लभा सत्स्ववाच्यता ।
- सोत्साहानां नास्त्यसाध्यं नराणाम् ।
- स्मृत्वा स्मृत्वा याति दुःखं नवत्वम् ।
- स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते ।
- स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः ।
- सङ्घे शक्तिः कलौ युगे ।
- सन्तोषं जनयेत् प्राज्ञः तदेवेश्वरपूजनम् ।
- सन्दीप्ते भवने न कूपखननं प्रत्युद्यमः कीदृशः ?
- सम्भावितस्य चाकीर्तिः मरणात् अतिरिच्यते ।
- संसर्गजाः दोषगुणाः भवन्ति ।