स्मृतिसूक्तयः(पुत्रः)
दिखावट
<poem> १. अपुत्रस्य वृथा जन्म ।
- बृहत्पराशरस्मृतिः, १०/३१६
२. अपुत्रस्य गतिर्नास्ति
- स्वर्गो नैव च नैव च ।
- प्रजापतिस्मृतिः, श्लोकः १८८
३. आचारहीनः पुत्रस्तु
- मूत्रोच्चारसमः स्मृतः ।
- व्यवहारनिर्णयः,पृ.४१९
४. एक एवौरसः पुत्रः
- पित्र्यस्य वसुनः प्रभुः ।
- मनुस्मृतिः, ९/ १६३
५. एष्टव्यं बहवः पुत्राः
- शीलवन्तो गुणान्विताः ।
- औशनसस्मृतिः,श्लोकः २४२
६. कोऽर्थः पुत्रेण जातेन
- यो न विद्वान्न धार्मिकः ।
- व्यवहारनिर्णयः,पृ.४१९
७. न पुत्रवानपत्नीकः
- किन्तु सोऽयमपुत्रवान् ।
- पूर्वांगिरसस्मृतिः,श्लोकः ३१९
८. नापुत्रस्य तु लोकोऽस्ति
- पुत्रिणस्तु त्रिविष्टपम् ।
- पूर्वांगिरसस्मृतिः, श्लोकः ३१६
९. पितुः पुत्रेण कर्तव्या
- पिण्डदानोदकक्रियाः ।
- बृहत्पराशरमृतिः, ७/ ४९
१०. पुत्रेणा लोकान् जयति ।
- मनुस्मृतिः ९/ १३७
११. पुंनाम्नो नरकाद्यस्मात्
- त्रायते पितरं सुतः ।
- तस्मात्पुत्र इति प्रोक्तः
- स्वयमेव स्वयम्भुवा ॥
- मनुस्मृतिः ९/१३८
१२. पुनन्ति साधवः पुत्राः ।
- गौतमस्मृतिः,चतुर्थोऽध्यायः
१३. पुत्रेण प्राप्यते स्वर्गो
- जातमात्रेण तु ध्रुवम् ।
- तस्मादिच्छन्ति सर्वे हि
- पशवोऽपि वयांस्यपि ॥
- बृहत्पराशरस्मृतिः , ६/१८९
१४. पुत्रयत्नं सदा कुर्याद्
- वैदिकं लौकिकं शुभम् ।
- पूर्वांगिरसस्मृतिः, श्लोकः ३२१
१५. पुत्रवानेव भाग्यवान् ।
- पूर्वांगिरसस्मृतिः, श्लोकः ३१७
१६. भवन्ति पुत्राः शुभवंशवृद्धयै ।
- बृहत्पराशरस्मृतिः, ११/३४७
१७. यः पिता स तु पुत्रः स्यात्
- जायैव हि जनन्यपि ।
- बृहत्पराशरस्मृतिः, ६/१९१
१८. यथैवात्मा तथा पुत्रः
- पुत्रेण दुहिता समा ।
- व्यवहारनिर्णयः पृ.४५२
१९. यादृशं फलमाप्नोति
- कुप्लवैः सन्तरन् जलम् ।
- तादृशं फलमाप्नोति
- कुपुत्रैः सन्तरंस्तमम् ॥
- मनुस्मृतिः, ९/ १६१
२०. स पुण्यकृत्तमो लोके
- यस्य पुत्राश्चिरायुषाः ।
- विशेषेण हि धर्मज्ञाः
- स परं ब्रह्म विदन्ति ॥
- बृहत्पराशरस्मृतिः,६/१८८