स्वस्ति पन्थामनुचरेम ॥

विकिसूक्तिः तः
Jump to navigation Jump to search

स्वस्ति पन्थामनुचरेम ॥ (ऋग्वेदः ५-५१-१५)[सम्पाद्यताम्]

मङ्गलकरं मार्गम् अनुसरेम ।

सु-उत्तमम्, अस्ति-विद्यते । अस्माकं सर्वेषामपि जीवनं कस्मिंश्चित् मार्गे उपक्रमते एव । अवधानपूर्वकं मङ्गलकरः, विस्तृतः, राजमार्गः यदि अनुस्रीयेत तर्हि ततः अस्माकमपि हितं भविष्यति, इतरेषामपि हितं भविष्यति । अस्माकं हिते सर्वेषां हितं विद्यते, सर्वेषां हिते अस्माकं हितं विद्यते । अस्याः मानवीयमार्गस्य अनुसरणस्य, अननुसरणस्य च स्वातन्त्र्यं, विभिन्नमतसम्प्रदायान् प्रविश्य वक्रमार्गान् अनुसरन्तः मार्गभ्रष्टाः भवितुं च स्वातन्त्र्यम् अस्माकं विद्यते इत्येतत् तु सत्यम् ! किन्तु किञ्चित् जागरूकतया सन्मार्गे गम्येत चेत् सर्वेषां क्षेमः साधितः यदि भवेत् तर्हि किमर्थं न ? सर्वेषु कालेषु सर्वत्र सर्वेषां च ये नियमाः समानाः सन्ति तेषाम् आधारेण स्वीयं जीवनमार्गं रूपयेम चेत् सः भवति राजमार्गः । ते नियमाः स्वार्थेन, अज्ञानेन, दार्ष्ट्येन, महता प्रयत्नेन वा परिवर्तयितुम् अशक्यः सार्वभौमः चेत् सः भवति सन्मार्गः । वयं केपि हिंसां न इच्छामः । अतः अन्येषां जीविनाम् उपरि तस्य आरोपणस्य अधिकारः अपि न विद्यते । प्रीतिस्नेहान् वयं यथा अपेक्षामहे तथैव अन्येभ्यः जीविभ्यः अपि वयं तदेव दद्याम । आत्मवत् सर्वत्र द्रष्टव्यम् ।