सभासमानासहसापरागात्...

विकिसूक्तिः तः


चित्रकाव्यम्

सभासमानासहसापरागात् सभासमाना सहसा परागात् ।
सभासमाना सहसापरागात् सभासमाना सहसापरागात् ॥


वैशिष्ट्यम्

अयं श्लोकः चतुर्भिः पदैः भागैः वा रचितः अस्ति । प्रत्येकस्मिन् पादे उपयुक्ताः वर्णाःतेषाम् अनुक्रमणीका च भवति समाना । तेषां पदानां पदविभागः संयोजनं वा विभिन्नतया कृतम् इत्यतः विभिन्नानि पदानि अर्थाश्च सम्पद्यन्ते ।


अर्थः

१. सभा मान-आसः – हस (एतैः सह वर्तत इति) सभा समानासहसा, (यतः) अपरागम् अस्ति
२. सभासमाना (भासमानैः सह वर्तत इति) सहसा (मार्गशीर्षेण हेतुना) परागात् (रजः कणात्) अतति (प्राप्नोति – परागात्)
३. भा (कान्तिः) समाना (सरूपाः, तैः सह वर्तते) सभासमाना। (स्यन्ति परान् ) इति साः, तैः सह वर्तत इति) सहसा । अपरागात् (अपरस्मात् पर्वतात्)
४. एवं भूता असमाना – सभा – सहसा – परागात् (परागता) विभक्तुम् अशक्येन बन्धेन युक्ता जनसभा तस्मात् पर्वतात् वेगेन दूरङ्गता । इयं सभा कान्त्या शोभमाना, अभिमानयुता, आमोदयुता, अरिसंहरणे कृतसङ्कल्पा च आसीत् । विद्वद्भिः शोभमाना च वर्तते स्म । मार्गशीर्षमासः इत्यतः वातावरणं धूल्या युक्तमासीत् । समानकान्त्या युतैः अरिसंहारकैः शोभायमानां सभां प्रति उत्साहेन आगच्छतां जनानां कारणतः उत्पन्ना सा धूलिः ।