सभासमानासहसापरागात्...
चित्रकाव्यम्
सभासमानासहसापरागात् सभासमाना सहसा परागात् ।
सभासमाना सहसापरागात् सभासमाना सहसापरागात् ॥
वैशिष्ट्यम्
अयं श्लोकः चतुर्भिः पदैः भागैः वा रचितः अस्ति । प्रत्येकस्मिन् पादे उपयुक्ताः वर्णाःतेषाम् अनुक्रमणीका च भवति समाना । तेषां पदानां पदविभागः संयोजनं वा विभिन्नतया कृतम् इत्यतः विभिन्नानि पदानि अर्थाश्च सम्पद्यन्ते ।
अर्थः
१. सभा मान-आसः – हस (एतैः सह वर्तत इति)
सभा समानासहसा, (यतः)
अपरागम् अस्ति
२. सभासमाना (भासमानैः सह वर्तत इति) सहसा
(मार्गशीर्षेण हेतुना) परागात्
(रजः कणात्) अतति (प्राप्नोति – परागात्)
३. भा (कान्तिः) समाना (सरूपाः, तैः सह वर्तते) सभासमाना।
(स्यन्ति परान् )
इति साः, तैः सह वर्तत इति) सहसा । अपरागात् (अपरस्मात् पर्वतात्)
४. एवं भूता असमाना – सभा – सहसा – परागात् (परागता)
विभक्तुम् अशक्येन बन्धेन युक्ता जनसभा तस्मात् पर्वतात् वेगेन दूरङ्गता । इयं सभा
कान्त्या शोभमाना, अभिमानयुता, आमोदयुता, अरिसंहरणे कृतसङ्कल्पा च आसीत् । विद्वद्भिः
शोभमाना च वर्तते स्म । मार्गशीर्षमासः इत्यतः वातावरणं धूल्या युक्तमासीत् । समानकान्त्या
युतैः अरिसंहारकैः शोभायमानां सभां प्रति उत्साहेन आगच्छतां जनानां कारणतः उत्पन्ना सा धूलिः ।