गद्यकाव्यसूक्तयः (विद्वत्ता)
दिखावट
<poem>
१ . अनपाचीनचित्तवृत्तिग्राहिण्यो भवन्ति प्रज्ञावतां प्रकृतयः । - हर्षचरितम् उ०२
२ . दिव्यं हि चषुर्भूतभवद्भविष्यत्सु व्यवहितविप्रकृष्टादिषु च
- विषयेषु शास्त्रं नामाप्रतिहतवृत्तिः । - दशकुमारचरितम् उ०पी०उ०८
३ . मानवं हि विद्यैव केवला तत्कर्तव्यं समुपदिशन्ती, इतरपशुभ्यो विशेषयति । - प्रतिज्ञापूर्तिः परि०५
४ . यथार्थविद्यासंस्कारहीनो मानवसमाजो भयानकवन्यपशुभ्योऽप्यधिकं भयप्रदः । - प्रतिज्ञापूर्तिः परि०५
५. विद्वज्जनसम्पर्को नष्टेष्टज्ञातिदर्शनाभ्युदयः ।
- कस्य न सुखाय भवति महारत्नताभक्ष्यस्य ॥ - हर्षचरितम् उ० २
६. विशुद्धया हि धिया पश्यन्ति कृतबुद्धयः सर्वानर्थनसतः सतो वा । - हर्षचरितम् उ०१