गद्यकाव्यसूक्तयः (विद्वत्ता)

विकिसूक्तिः तः

<poem>

१ . अनपाचीनचित्तवृत्तिग्राहिण्यो भवन्ति प्रज्ञावतां प्रकृतयः । - हर्षचरितम् उ०२

२ . दिव्यं हि चषुर्भूतभवद्भविष्यत्सु व्यवहितविप्रकृष्टादिषु च

विषयेषु शास्त्रं नामाप्रतिहतवृत्तिः । - दशकुमारचरितम् उ०पी०उ०८

३ . मानवं हि विद्यैव केवला तत्कर्तव्यं समुपदिशन्ती, इतरपशुभ्यो विशेषयति । - प्रतिज्ञापूर्तिः परि०५

४ . यथार्थविद्यासंस्कारहीनो मानवसमाजो भयानकवन्यपशुभ्योऽप्यधिकं भयप्रदः । - प्रतिज्ञापूर्तिः परि०५

५. विद्वज्जनसम्पर्को नष्टेष्टज्ञातिदर्शनाभ्युदयः ।

कस्य न सुखाय भवति महारत्नताभक्ष्यस्य ॥ - हर्षचरितम् उ० २

६. विशुद्धया हि धिया पश्यन्ति कृतबुद्धयः सर्वानर्थनसतः सतो वा । - हर्षचरितम् उ०१