जैनदर्शनसूक्तयः (धनम्)

विकिसूक्तिः तः

<Poem> १. असुमतामसुभ्योऽपि गरीयो हि भृशं धनम् । - क्षत्रचूडामणिः २.७२ २. कदर्यस्यार्थसंग्रहो राजदायाद-तस्कराणामन्यतमस्य निधिः । - नीतिवाक्यामृतम् २.११ ३. तादात्विक –मूलहर-कदर्पेषु नासुलभः प्रत्यवायः । - नीतिवाक्यामृतम् २.६ ४. तीर्थमर्थेनासम्भावयन्मधुच्छत्रमिव सर्वात्मना विनश्यति । - नीतिवाक्यामृतम् २.४ ५. धनं किं न करोति वै । - पांडवपुराणम् ४.२०२ ६. न श्रृण्वन्ति न बुध्यन्ति,न प्रयान्ति च सत्पथम । प्रायोत्तोऽपि न कार्यान्तं,धनान्ध इति चिन्त्यताम् ॥ - क्षत्रचूडामणिः २.५६ ७. बाह्या प्राणा नृणामर्थो,हरता तं हता हिते । - योगशास्त्रम् १.२२ ८. स खलु कस्यापि माभूदर्थो यत्रासविभागः शरणागतानाम् । - नीतिवाक्यामृतम् १.१५ ९. नष्टस्यार्थस्य सम्प्राप्तिः कामदोग्ध्री मुदां न किम् । - जीवन्धरचम्पूः ३.२२