जैनदर्शनसूक्तयः (योगः)

विकिसूक्तिः तः

<Poem> १. कायवाङ्मनः कर्मयोगः । - तत्वार्थसूत्रम् ६.१ २. पापान्मुक्तः पुमांल्लब्ध-स्वात्मानित्यं प्रमोदते । धवला ४/१५८ ३. मोक्षोपायो योगो ज्ञान-श्रद्धान – चरणात्मकः । - अभिधानचिन्तामणिः१.६६ ४. योगः प्रधानं धर्माणां योगः सिद्धेः स्वयंग्रहः । - योगबिन्धुः ३७ ५. योगः सर्वविपद्वल्ली-विताने परशुः शितः । - योगशास्त्रम् १.५