अशोकवनिकान्यायः

विकिसूक्तिः तः

सत्सु बहुषु उद्यानेषु रावणः सीताम् अशोकवने स्थापितवान्। विशिष्टं किमपि कारणं तत्र नास्ति । रावणः किमर्थं अशोकवने सीतां स्थापितवान् इत्यस्य प्रश्नस्य उत्तरमपि नास्ति । यत्र कुत्रापि स्थापयति चेदपि किमर्थम् अमुकस्थाने स्थापितवान् इति प्रश्नस्तु भवत्येव । एषः न्यायः अशोकवनिकान्यायः इत्युच्यते ।

"https://sa.wikiquote.org/w/index.php?title=अशोकवनिकान्यायः&oldid=17671" इत्यस्माद् प्रतिप्राप्तम्