न दैवमिति सञ्चिन्त्य...

विकिसूक्तिः तः

सुभाषितम्

न दैवमिति सञ्चिन्त्य त्यजेदुद्योगमात्मनः ।
अनुद्यमेन कस्तैलं तिलेभ्यः प्राप्तुमर्हति ॥




तात्पर्यम्

सर्वं दैवाधीनमिति विचिन्त्य प्रयत्नम् अकुर्वद्भिः न उपवेष्टव्यम् । प्रयत्नेन विना तिलात् तैलं न प्राप्यते ।

"https://sa.wikiquote.org/w/index.php?title=न_दैवमिति_सञ्चिन्त्य...&oldid=14932" इत्यस्माद् प्रतिप्राप्तम्