न दैवमिति सञ्चिन्त्य...
नेविगेशन पर जाएँ
खोज पर जाएँ
सुभाषितम्
न दैवमिति सञ्चिन्त्य त्यजेदुद्योगमात्मनः ।
अनुद्यमेन कस्तैलं तिलेभ्यः प्राप्तुमर्हति ॥
तात्पर्यम्
सर्वं दैवाधीनमिति विचिन्त्य प्रयत्नम् अकुर्वद्भिः न उपवेष्टव्यम् । प्रयत्नेन विना तिलात् तैलं न प्राप्यते ।