काकतालीयवत्प्राप्तं...

विकिसूक्तिः तः

सुभाषितम्

काकतालीयवत्प्राप्तं
दृष्ट्वापि निधिमग्रतः ।
न स्वयं दैवमादत्ते
पुरुषार्थमपेक्षते ॥




तात्पर्यम्

काकतालीयरूपेण निधिः पुरतः दृश्यते चेदपि तं निधिं प्राप्तुं किञ्चिद्वा परिश्रमः करणीयः भवति । अन्यथा स्वयं दैवः आगत्य निधिं हस्ते न ददाति ।