किं कुलेन विशालेन...

विकिसूक्तिः तः

सुभाषितम्

किं कुलेन विशालेन
शीलमेवात्र कारणम् ।
कृमयः किं न जायन्ते
कुसुमेषु सुगन्धिषु ॥




तात्पर्यम्

मनुष्येन उत्तमकुले जन्म प्राप्तं चेदपि तस्य श्रेष्ठत्वस्य कारणं शीलमेव भवति न तु कुलं, यथा सुगन्धभरितेषु पुष्पेषु कृमिकीटाः अपि जायन्ते ननु ।

"https://sa.wikiquote.org/w/index.php?title=किं_कुलेन_विशालेन...&oldid=15295" इत्यस्माद् प्रतिप्राप्तम्