केवलं ग्रहनक्षत्रं...

विकिसूक्तिः तः

सुभाषितम्

केवलं ग्रहनक्षत्रं न करोति शुभाशुभम् ।
सर्वमात्मकृतं कर्म लोकवादो ग्रहा इति ॥

अनुशासनपर्व १४५/२

kevalaṃ grahanakṣatraṃ na karoti śubhāśubham ।
sarvamātmakṛtaṃ karma lokavādo grahā iti ॥

पदच्छेदः

केवलं, ग्रहनक्षत्रं, न, करोति, शुभाशुभम्, सर्वम्, आत्मकृतं, कर्म, लोकवादः, ग्रहाः, इति ॥


तात्पर्यम्

जीवने कष्टानि दुःखानि यदा आपतन्ति तदा बहवः वदन्ति – ग्रहगतिः समीचीना नास्ति इति । किन्तु केवलं ग्रहनक्षात्रादीनां कारणतः अस्माकं जीवने सुखदुःखादयः न भवन्ति । अस्माभिः कृतानां कर्मणां कारणतः एव शुभाशुभफलं प्राप्यते । ग्रहगतिकारणतः इदं जातम् इत्येतत् जनानां वचनमात्रम् ।


आङ्ग्लार्थः

When hardships and sufferings strike in life, many say that the movement of the planets is not right. But happiness and sorrow in our lives are not caused solely by the planets and stars. Good and evil results are obtained only because of the actions performed by us. People believe that this happened because of the movement of the planets.

"https://sa.wikiquote.org/w/index.php?title=केवलं_ग्रहनक्षत्रं...&oldid=17749" इत्यस्माद् प्रतिप्राप्तम्