गद्यकाव्यसूक्तयः (भाग्यम्)

विकिसूक्तिः तः

<poem> १ . अतिपिशुनानि चास्यैकान्तनिष्ठुरस्य दैवहतकस्य विलसितानि । - कादम्बरी पूर्वभागः पृष्ठम्-५८२

२ . अनुकूलविधिविहितसहायकस्य साहसिकस्य सर्वदा शस्यसम्पदि

वा नीतिरनीतिरपि फलति । - तिलकमञ्जरी

३ . अभिमते वस्तुनि दैवं प्रमाणीकृत्य सर्वात्मना प्रवर्तितव्यम् । - तिलकमञ्जई पृ० १५५

४. अव्याहता गतिः सर्वत्र भवितव्यतायाः । - तिलकमञ्जई पृ० ३४३

५. अनतिक्रमणीयान्यवश्यमेव भाव्यानि । - शृङ्गारमञ्जरी पृ० ६०

६. अनतिलङ्घनीयं हि दौरात्म्यदुर्विलसितं दुष्टविधेः । - मन्दारवती, परि०५

७. अहो ! दुर्लङ्घ्या हतविधिविलसितानां गतिः । - शृङ्गारमञ्जरी पृ० ६०

८. ईश्वरेच्छा बलीयसी । दैवनियोगमुल्लङ्घयितुं कः पारयेत् । - कथामुक्तावली कथा-२

९. किं तदस्ति नाम रमणीयमद्भुतं वा जगति यन्न दर्शयतीन्द्रजालिक

इव मायाप्रगल्भः शुभकर्मणामासादितोदयः परिणामः । - तिलकमञ्जरी, पृष्ठ-२९८

१०. गुणवत्यपि जने दुर्जनवन्निर्दाक्षिण्याः क्षणभङ्गिन्यो ।

दुरतिक्रमणीया, न रमणीया, देवस्य वामा वृत्तयः ॥ - हर्षचरितम्, उच्छ्वासः १

११. जीवितविषयान् मृत्युं मृत्युमुखाज्जीवितं च नियमेन ।

जनमानयति नयत्यपि विरमति न काऽप्यसौ नियतिः ॥ - उदयसुन्दरीकथा उच्छ्वासः-९

१२. देवस्य वामा वृत्तयः । - हर्षचरितम् उच्छ्वासः ४

१३. दैव्याः शक्तेः पुरो न बलवती मानवी शक्तिः । - दशकुमारचरितम्-उत्तरपीठिका

१४. न किञ्चिदगोचरो भवितव्यानाम् । - वासवदत्ता पृ० ३२६

१५. निपतति किल दुर्बलेषु दैवं तदवितथम् । - नलचम्पू, ६/२०

१६. न ह्यलमतिनिपुणोऽपि पुरुषो नियतिलिखितां लेखमतिक्रामितुम् । - दशकुमारचरितम्, उत्तरपीठिका उच्छ्वासः २

१७. न क्षमते (दैवं) दीर्घकालमव्याजरमणीयं प्रेम । - कादम्बरी पूर्वभागः

१८. न हि शक्यं दैवमन्यथाकर्तुमभियुक्तेनापि । - कादम्बरी पूर्वभागः

१९. निरवधिप्रचारो विधिः नास्त्यगोचरः पुराकृतकर्मणाम् । - तिलकमञ्जरी पृ० ३४५

२०. प्रभवति हि भगवान् विधिः, बलवती च नियतिः । - कादम्बरी पूर्वभागः

२१. भवितव्यं भवत्येव नारिकेलफलाम्बुवत् । - शिवराजविजयम्, ३/९

२२. भागधेयं मनुजस्यात्मन एवाधीनं खलु । - कथामुक्तावली कथा-३

२३. विधिर्नामापरः कोऽप्यत्रास्ते, यत् तस्मै रोचते तत् करोति । - कादम्बरी उत्तरभागः