गद्यकाव्यसूक्तयः (सङ्कीर्णः)

विकिसूक्तिः तः

<poem> १ . आत्महननमिह चामुत्र च दुःखप्रायमामनन्ति बुधाः । - मन्दारवती, परि०५

२ . कस्यास्ति शक्तिरूर्ध्वमुल्लासिनमनल-शिखाकलापमधोमुखं

प्रवर्तायितुम् । - उदयसुन्दरीकथा पृ०८ उ०१

३ . केन शक्यते तडिद्दण्डस्य विस्पुरणलाघवं मन्दतां नेतुम् । - उदयसुन्दरीकथा पृ०८ उ०१

४ . को नाम भगवन्तमम्बरतलावगामिनं मरीचिमालिनमवनिपथेन

प्रचारयितुमलम् । - उदयसुन्दरीकथा पृ०८ उ०१

५. को हि कल्पान्तविस्तृताम्भोधि-जल-महाप्लवेन प्लाव्यमानां

प्रस्खलितुमिह क्षयः क्षोणीम् । - उदयसुन्दरीकथा - उ०१

६. इयं हि सभ्यता महामोहमयी पिशाचीव दुस्तरे मोहगर्ते निपातयति । - प्रबन्धमञ्जरी पृ० ११४

७. जागरे हि एकसम्बन्धिज्ञानमपरसम्बन्धिस्मारकं भवति । - शिवराजविजयम् ३/२

८. ताराभिर्न विराजति शून्या चन्द्रेण गगनश्रीः । - उदयसुन्दरीकथा पृ०८ उ०१

९. दिव्या हि मूर्तयो भाजनं दिव्याभरणानाम् । - तिलकमञ्जरी पृ० ४६

१०. दैवतान्यपि हि मुनिशापवशादुज्झितनिजशरीराणि

शापवचनोपनीतान्येतानि शरीरान्तराण्यध्यासत एव । - कादम्बरी पूर्वभागः

११. न खलु सर्वः सर्वं कार्यमेव करोत्यसारे संसारे । - वासवदत्ता पृ० १६२

१२. नगरधूलिः महामुनीनामपि साधुत्वमपाकरोति । - द्वासुपर्णा-उत्तरभागः

१३. परदोषदर्शनदक्षा दृष्टिर्नात्मदोषं पश्यति । - हर्षचरितम् उ०१

१४. प्राणरक्षणाच्च न परं पुण्यजातं जगति गीयते जनेन । - हर्षचरितम् उ०८

१५. भार्या भूमिभूषणञ्च भवनं भार्गवी तथा ।

बलहीनं त्यजन्त्याशु भजन्ते बलवत्तरम् ।। - ललितकथा कल्पलता कथा-३

१६. यदा विषविन्दुः अम्रृतपात्रे निक्षिप्यते तदा समग्रमपि पात्रं विषमयं भवति ।

यदा अमृतबिन्दुः विषपात्रे निक्षिप्यते तदा विषपात्रम् अमृतमयं न भवति ।। - उदयसुन्दरीकथा-उ०१

१७. सहजस्नेहपाशग्रन्थिबन्धनाश्च बान्धवभूताः दुस्त्यजा जन्मभूमयः । - हर्षचरितम् उ०१

१८. धूमदर्शनतो वह्निं नावगच्छति कः पुमान् ।

शीते वाते समायते कः समीमे जलस्थितिम् ॥ - जीवन्धरचम्पू लम्भ २ स्लो०१२

१९. सर्व एव ह्यविनयप्रावृत्तोऽनुतापाद् विना न निवर्तते । - कादम्बरी उत्तरभागः

२०. सुखदुःखे च जीवतो नरस्य परस्परमनुबध्यन्ते विभावरीवासराविव । - मन्दारवती, परि०५

२१. स्वमहिमदर्शनमक्ष्णोर्मुकुरतले जायते । - वासवदत्ता