जैनदर्शनसूक्तयः (मानः)

विकिसूक्तिः तः

<Poem> १. तपोज्ञानादिसंभूतो मदो न क्रियते बुधैः । - सुभाषितरत्नावली ९९ २. मानप्राणा हि मानिनः । - उत्तरपुराणम् ६१.६१ ३. मानश्चित्तोन्नतिः । - अभिधानचिन्तामणिः २.२३१ ४. याञ्चायां फलमूकायां न हि जीवन्ति मानिनः । - क्षत्रचूडामणिः ९.२६ ५. विवेकलोचनं लुम्पन् मानोन्धकरणो नृणाम् । - योगशास्त्रम् ४.१२