गद्यकाव्यसूक्तयः (लोकनीतिः)
<poem> लोकनीतिः
१ . अचिन्त्यो हि मणिमन्त्रौषधीनां प्रभावः । - दशकुमारचरितम्, पूर्वपीठिका उ०३
२ . अतिकष्टासु दशास्वपि जीवितनिरपेक्षा न भवन्ति खलु प्राणिनां वृत्तयः । - कादम्बरी कथामुखल्
३ . अत्र तावदनेकभवसुकृतशतसहस्राधिगम्यं मानुष्यमेव दुर्लभम् । - कादम्बरी उत्तरभागः
४. अदुर्लभं हि मरणमध्यासितम् । - कादम्बरी पूर्वभागः
५. अपगतमले हि मनसि स्फटिकमणाविव रजनिकरगभस्तयो विशन्ति
- सुखेनोपदेशगुणाः । - कादम्बरी पूर्वभागः
६. अपरिगतानि दैवतान्यप्यनुचित-परिभवभाञ्जि भवन्ति । - कादम्बरी पूर्वभागः
७. अपुत्राणां किल न सन्ति लोकाः शुभाः । - कादम्बरी पूर्वभागः
८. अवितथफला हि प्रायो निशावसानसमयदृष्टा भवन्ति स्वप्नाः । - कादम्बरी पूर्वभागः
९. अविमृश्यकारिणां हि नियतमनेकाः पतन्त्यनुशयपरम्पराः । - दशकुमारचरितम्, पूर्वपीठिका उ०६
१०. आत्मानं हि सदा गोपयतः सिद्धयः सान्निध्यं भजन्ते । - प्रतिज्ञापूर्तिः, परि०३
११. आवेदयन्ति हि प्रत्यासन्नमानन्दमग्रेपातीनि शुभानि निमित्तानि । - कादम्बरी पूर्वभागः
१२. इह हि संसारसद्मनि समासादितावतारः स्वभावविमलोऽपि जन्तुरेकत्रैव
- जन्मानि दशावशेन दीपङ्कुर इवानेकानि रूपान्तराण्यनुभवति । - तिलकमञ्जरी-पृ०३४६
१३. उत्तरोत्कर्षग्रस्ता हि संसारे सर्वोत्कर्षाः । - मन्दारमञ्जरी पूर्वभागः
१४. उपनयन्ति हि हृदयमदृष्टमपि जनं शीतलसंवादाः । - हर्षचरितम् उ०३
१५. कस्यचित् प्राणिनोऽनादरस्तु भगवतोऽनादर एव । - हर्षचरितम् उ०३
१६. कामना हि सर्वगुणापहारिणी । - द्वासुपर्णा, पूर्वभगः
१७. किं तेन जातु जातेन मातुर्यौवनहारिणा ।
- आरोहति न यः स्वस्य वंशस्याग्रे ध्वजोयथा ॥ - नलचम्पू ४/१९
१८. किं नाम नावलोक्यते जीवद्भिरद्भुतम् । - हर्षचरितम् उ०८
१९. क्षुद्रोऽप्यहिरिवारातिर्निहन्तव्य इति नीतिविदः कथयन्ति । - कृष्णचरितम्-पृ०५८
२०. गुणिनामपि स्वरूपप्रतिपत्तिः परत एव सम्भवति । - वासवद्त्ता प्रस्तावना पद्यम् १२
२१. चातका इव तृष्णावन्तो न शक्यन्ते ग्रहीतुमकुलीनाः । - हर्षचरितम् उ०४
२२. जगति जन्तूनामसमर्थोपनतान्यापतन्ति वृत्तान्तान्तराणि । - कादम्बरी, पूर्वभागः
२३. जीवंस्तु जलाञ्जलिदानादिना बहूपकरोत्युपरतस्यात्मनश्च,
- मृतस्तु नोभयस्यापि । - कादम्बरी, पूर्वभागः
२४. दुर्दमनीया खलु प्राणिनां जिजीविषा । - सिन्धुकन्य-परिच्छेदः-८ पृ०१५९
२५. धनं तृष्णावतः प्राणाः वह्रेः प्राणास्तथेन्धनम् ।
- कामुकस्य स्त्रियः प्राणाः मानः प्राणा मनस्विनः ॥ - पुरुषपरीक्षा परि०१
२६. न खल्वपराधमनवबोध्यैव प्रभवः प्रभवन्ति परिजनानुपालब्धुम् । - पारिजातहरणचम्पू उ०३
२७. न तादृशी भवति याचमानानां यादृशी ददतां लज्जा । - कादम्बरी, पूर्वभागः
२८. नन्वियं सा त्रिभुवननिन्दनीया निरनुरोधा निष्परिचया दुर्ग्रहा प्रकृतिर्मर्त्यानां
- येषामकाण्डविसंवादिन्यः प्रीतयो न गन्णयन्ति निष्कारणवत्सलताम् । - कादम्बरी, पूर्वभागः
२९. न हि लुष्ठकेषु कस्यापि प्रीतिर्भवति । - शिवराजविजयम् २/५
३०. नास्ति जीवितादन्यदभिमततरमिह जगति सर्वजन्तूनाम् । - कादम्बरी, कथामुखम्
३१. नौकाकी निर्णयं कुर्योदिष्टे कृत्यविधौ क्वचित् ।
- सम्भवन्ति बुधस्यापि दोषा वै विभ्रमादयः । - पुरुषपरीक्षा-विद्यापति परिच्छेद-१
३२. प्रबलैः सह विरोधो न भवत्येव सुखकरः । - शिवराजविजयम् ३/९
३३. प्राकृतसुतजन्मलाभादनुपमानमातत्मानं मन्यन्ते जगति जन्तवः । - कृष्णचरितम् पृ०१६
३४. फलाभिलाषिणा पुरुषेण नैकान्तो नीतिनिष्ठेन भव्यम् । - तिलकमञ्जरी पृ०१५५
३५. फलोत्पत्तिस्तु सामग्रीसमवधानाधीना । - मन्दारमञ्जरी पूर्वभागः
३६. बलवती हि द्वन्द्वानां प्रवृत्तिः । - कादम्बरी पूर्वभागः
३७. बहुप्रकारश्च संसारवृत्तयः । - कादम्बरी पूर्वभागः
३८. बहुभाषिणे न श्रद्दधाति लोकः । - कादम्बरी पूर्वभागः
३९. महासत्त्वता हि प्रथममवलम्बनं लोकस्य पश्चाद्राजबीजिता । - हर्षचरितम् उ ०५
४०. मोहविलसितमेतत्, अज्ञानपद्धतिरियम्, रभसाचरितमिदम्,
- क्षुद्रदृष्टिरेषा, अतिप्रमादोऽयं मौर्ख्यस्खलितमिदम्, यदुपरते
- पितरि, भ्रातरि, सुहृदि, भर्तरि वा प्राणाः परित्यज्यन्ते । - कादम्बरी पूर्वभागः
४१. येदतदनुमरणं नाम तदतिनिष्फलम्, अविद्वज्जनाचरति एव मार्गः । - कादम्बरी पूर्वभागः
४२. यादृशाद् वै जायते तादृगेव भवति । - कादम्बरी उत्तरभागः
४३. युक्तायुक्तविचारशून्यत्वाच्च शालीनमपि शिक्षयन्ति स्वार्थतृष्णाः प्रागल्भ्यम् । - हर्षचरितम् उ०८
४४. येषां च भक्ष्याभक्ष्यनियमोऽस्ति तेषामप्यापत्काले प्राणानां
- सन्धारणमभक्ष्योपयोगेनापि तावद् विहितम् । - कादम्बरी उत्तरभागः
४५. रटन्त्यनवरतमखिलप्राणि-प्रयाण-प्रकटनपटवः प्रेतपतिपटहाः । - हर्षरचरितम् ऊ०८
४६. लोकयात्रामात्रनिबन्धना बान्धवता । - हर्षचरितम् उ०६
४७. लोकसेवासमृद्ध्यर्थं सर्वशो यतनीयम् । - द्वासुपर्णा उत्तभागः
४८. लोकेऽपि च कारणगुणभाञ्ज्येव कार्याणि दृश्यन्ते । - कादम्बरी उत्तरभागः
४९. शक्याश्क्यपरिसंख्यानशून्याः प्रायेण स्वार्थतृषः । - हर्षचरितम् उ०३
५०. शुभमशुभमथापि वा नृणां कथयति पूर्वनिदर्शनोदयः । - हर्षचरितम् उ०४
५१. शुभागमो निमित्तेन स्पष्टमाख्यायते लोके । - हर्षचरितम् उ०४
५२. सभ्यतमा हि जना बहिः शुभदर्शना अपि अन्तरत्यन्तमलशालिनो भवन्ति । - प्रबन्धमञ्जरी पृ० ११६
५३. सर्व एव हि जगति जन्मनो वयस आकृतेर्वा सदृशमाचरन् न वचनीयतामेति । - कादम्बरी उत्तरभागः
५४. सर्वमात्मनोऽनीशवरं विश्वे नश्वरम् । - हर्षचरितम् उ०८
५५. साधनहीनस्य पुरुषस्य बुद्धिमतोऽप्यन्ततो गत्वा विनिपातोऽवश्यम्भावी । - प्रतिज्ञापूर्तिः, परि०५
५६. सुधीरेऽपि हि मनसि यशांसि कुर्वन्ति विवरम् । - हर्षचरितम् उ०३
५७. स्वैरिणो विचित्राश्च लोकस्य स्वभावाः प्रवादाश्च । - हर्षचरितम् उ०२