गद्यकाव्यसूक्तयः (लोकनीतिः)

विकिसूक्तिः तः

<poem> लोकनीतिः

१ . अचिन्त्यो हि मणिमन्त्रौषधीनां प्रभावः । - दशकुमारचरितम्, पूर्वपीठिका उ०३

२ . अतिकष्टासु दशास्वपि जीवितनिरपेक्षा न भवन्ति खलु प्राणिनां वृत्तयः । - कादम्बरी कथामुखल्

३ . अत्र तावदनेकभवसुकृतशतसहस्राधिगम्यं मानुष्यमेव दुर्लभम् । - कादम्बरी उत्तरभागः

४. अदुर्लभं हि मरणमध्यासितम् । - कादम्बरी पूर्वभागः

५. अपगतमले हि मनसि स्फटिकमणाविव रजनिकरगभस्तयो विशन्ति

सुखेनोपदेशगुणाः । - कादम्बरी पूर्वभागः

६. अपरिगतानि दैवतान्यप्यनुचित-परिभवभाञ्जि भवन्ति । - कादम्बरी पूर्वभागः

७. अपुत्राणां किल न सन्ति लोकाः शुभाः । - कादम्बरी पूर्वभागः

८. अवितथफला हि प्रायो निशावसानसमयदृष्टा भवन्ति स्वप्नाः । - कादम्बरी पूर्वभागः

९. अविमृश्यकारिणां हि नियतमनेकाः पतन्त्यनुशयपरम्पराः । - दशकुमारचरितम्, पूर्वपीठिका उ०६

१०. आत्मानं हि सदा गोपयतः सिद्धयः सान्निध्यं भजन्ते । - प्रतिज्ञापूर्तिः, परि०३

११. आवेदयन्ति हि प्रत्यासन्नमानन्दमग्रेपातीनि शुभानि निमित्तानि । - कादम्बरी पूर्वभागः

१२. इह हि संसारसद्मनि समासादितावतारः स्वभावविमलोऽपि जन्तुरेकत्रैव

जन्मानि दशावशेन दीपङ्कुर इवानेकानि रूपान्तराण्यनुभवति । - तिलकमञ्जरी-पृ०३४६

१३. उत्तरोत्कर्षग्रस्ता हि संसारे सर्वोत्कर्षाः । - मन्दारमञ्जरी पूर्वभागः

१४. उपनयन्ति हि हृदयमदृष्टमपि जनं शीतलसंवादाः । - हर्षचरितम् उ०३

१५. कस्यचित् प्राणिनोऽनादरस्तु भगवतोऽनादर एव । - हर्षचरितम् उ०३

१६. कामना हि सर्वगुणापहारिणी । - द्वासुपर्णा, पूर्वभगः

१७. किं तेन जातु जातेन मातुर्यौवनहारिणा ।

आरोहति न यः स्वस्य वंशस्याग्रे ध्वजोयथा ॥ - नलचम्पू ४/१९

१८. किं नाम नावलोक्यते जीवद्भिरद्भुतम् । - हर्षचरितम् उ०८

१९. क्षुद्रोऽप्यहिरिवारातिर्निहन्तव्य इति नीतिविदः कथयन्ति । - कृष्णचरितम्-पृ०५८

२०. गुणिनामपि स्वरूपप्रतिपत्तिः परत एव सम्भवति । - वासवद्त्ता प्रस्तावना पद्यम् १२

२१. चातका इव तृष्णावन्तो न शक्यन्ते ग्रहीतुमकुलीनाः । - हर्षचरितम् उ०४

२२. जगति जन्तूनामसमर्थोपनतान्यापतन्ति वृत्तान्तान्तराणि । - कादम्बरी, पूर्वभागः

२३. जीवंस्तु जलाञ्जलिदानादिना बहूपकरोत्युपरतस्यात्मनश्च,

मृतस्तु नोभयस्यापि । - कादम्बरी, पूर्वभागः

२४. दुर्दमनीया खलु प्राणिनां जिजीविषा । - सिन्धुकन्य-परिच्छेदः-८ पृ०१५९

२५. धनं तृष्णावतः प्राणाः वह्रेः प्राणास्तथेन्धनम् ।

कामुकस्य स्त्रियः प्राणाः मानः प्राणा मनस्विनः ॥ - पुरुषपरीक्षा परि०१

२६. न खल्वपराधमनवबोध्यैव प्रभवः प्रभवन्ति परिजनानुपालब्धुम् । - पारिजातहरणचम्पू उ०३

२७. न तादृशी भवति याचमानानां यादृशी ददतां लज्जा । - कादम्बरी, पूर्वभागः

२८. नन्वियं सा त्रिभुवननिन्दनीया निरनुरोधा निष्परिचया दुर्ग्रहा प्रकृतिर्मर्त्यानां

येषामकाण्डविसंवादिन्यः प्रीतयो न गन्णयन्ति निष्कारणवत्सलताम् । - कादम्बरी, पूर्वभागः

२९. न हि लुष्ठकेषु कस्यापि प्रीतिर्भवति । - शिवराजविजयम् २/५

३०. नास्ति जीवितादन्यदभिमततरमिह जगति सर्वजन्तूनाम् । - कादम्बरी, कथामुखम्

३१. नौकाकी निर्णयं कुर्योदिष्टे कृत्यविधौ क्वचित् ।

सम्भवन्ति बुधस्यापि दोषा वै विभ्रमादयः । - पुरुषपरीक्षा-विद्यापति परिच्छेद-१

३२. प्रबलैः सह विरोधो न भवत्येव सुखकरः । - शिवराजविजयम् ३/९

३३. प्राकृतसुतजन्मलाभादनुपमानमातत्मानं मन्यन्ते जगति जन्तवः । - कृष्णचरितम् पृ०१६

३४. फलाभिलाषिणा पुरुषेण नैकान्तो नीतिनिष्ठेन भव्यम् । - तिलकमञ्जरी पृ०१५५

३५. फलोत्पत्तिस्तु सामग्रीसमवधानाधीना । - मन्दारमञ्जरी पूर्वभागः

३६. बलवती हि द्वन्द्वानां प्रवृत्तिः । - कादम्बरी पूर्वभागः

३७. बहुप्रकारश्च संसारवृत्तयः । - कादम्बरी पूर्वभागः

३८. बहुभाषिणे न श्रद्दधाति लोकः । - कादम्बरी पूर्वभागः

३९. महासत्त्वता हि प्रथममवलम्बनं लोकस्य पश्चाद्राजबीजिता । - हर्षचरितम् उ ०५

४०. मोहविलसितमेतत्, अज्ञानपद्धतिरियम्, रभसाचरितमिदम्,

क्षुद्रदृष्टिरेषा, अतिप्रमादोऽयं मौर्ख्यस्खलितमिदम्, यदुपरते
पितरि, भ्रातरि, सुहृदि, भर्तरि वा प्राणाः परित्यज्यन्ते । - कादम्बरी पूर्वभागः

४१. येदतदनुमरणं नाम तदतिनिष्फलम्, अविद्वज्जनाचरति एव मार्गः । - कादम्बरी पूर्वभागः

४२. यादृशाद् वै जायते तादृगेव भवति । - कादम्बरी उत्तरभागः

४३. युक्तायुक्तविचारशून्यत्वाच्च शालीनमपि शिक्षयन्ति स्वार्थतृष्णाः प्रागल्भ्यम् । - हर्षचरितम् उ०८

४४. येषां च भक्ष्याभक्ष्यनियमोऽस्ति तेषामप्यापत्काले प्राणानां

सन्धारणमभक्ष्योपयोगेनापि तावद् विहितम् । - कादम्बरी उत्तरभागः

४५. रटन्त्यनवरतमखिलप्राणि-प्रयाण-प्रकटनपटवः प्रेतपतिपटहाः । - हर्षरचरितम् ऊ०८

४६. लोकयात्रामात्रनिबन्धना बान्धवता । - हर्षचरितम् उ०६

४७. लोकसेवासमृद्ध्यर्थं सर्वशो यतनीयम् । - द्वासुपर्णा उत्तभागः

४८. लोकेऽपि च कारणगुणभाञ्ज्येव कार्याणि दृश्यन्ते । - कादम्बरी उत्तरभागः

४९. शक्याश्क्यपरिसंख्यानशून्याः प्रायेण स्वार्थतृषः । - हर्षचरितम् उ०३

५०. शुभमशुभमथापि वा नृणां कथयति पूर्वनिदर्शनोदयः । - हर्षचरितम् उ०४

५१. शुभागमो निमित्तेन स्पष्टमाख्यायते लोके । - हर्षचरितम् उ०४

५२. सभ्यतमा हि जना बहिः शुभदर्शना अपि अन्तरत्यन्तमलशालिनो भवन्ति । - प्रबन्धमञ्जरी पृ० ११६

५३. सर्व एव हि जगति जन्मनो वयस आकृतेर्वा सदृशमाचरन् न वचनीयतामेति । - कादम्बरी उत्तरभागः

५४. सर्वमात्मनोऽनीशवरं विश्वे नश्वरम् । - हर्षचरितम् उ०८

५५. साधनहीनस्य पुरुषस्य बुद्धिमतोऽप्यन्ततो गत्वा विनिपातोऽवश्यम्भावी । - प्रतिज्ञापूर्तिः, परि०५

५६. सुधीरेऽपि हि मनसि यशांसि कुर्वन्ति विवरम् । - हर्षचरितम् उ०३

५७. स्वैरिणो विचित्राश्च लोकस्य स्वभावाः प्रवादाश्च । - हर्षचरितम् उ०२