हे चतुर, वद उत्तरम् !
|
वृक्षाग्रवासी न च पक्षिजातिः
तृणं च शय्या न च राजयोगी ।
आपीतवर्णो न च हेमधातुः
अतश्च ताम्रः सुरसः क एषः ?
वृक्षस्य उपरि भवति, किन्तु पक्षी न । तृणस्य उपरि शेते, किन्तु योगी न ।
पीतवर्णीयः भवति, किन्तु सुवर्णं न । अतः सुगन्धयुक्तः ताम्रः । किम् एतत् ?
'अतः' इत्येतस्य अर्थद्वयम् - 'तस्मात्' 'तकाररहितम्' इति च । 'ताम्रः'
इत्यत्र तकारः निष्कासनीयः ।
|
|
|
|
|
स्वयं पञ्चमुखः पुत्रौ गजाननषडाननौ ।
दिगम्बरः कथं जीवेत् अन्नपूर्णा न चेत् गृहे ॥
शिवः पञ्चभिः मुखैः युक्तः । पञ्च अपि मुखानि खादनम् इच्छन्ति । शिवस्य एकः पुत्रः गजाननः । अतः एव गजवत् प्रभूतं खादति सः । अपरः पुत्रः षडाननः । एवं पूरणीयानि उदराणि बहूनि । ईश्वरः तु स्वयं दिगम्बरः, अतः एव अकिञ्चनः । ‘तथापि तस्य जीवनं कथं प्रचलति’ इति वा भवतां सन्देहः ? पत्न्याः अन्नपूर्णायाः कृपा । अन्नपूर्णा सा सर्वेभ्यः प्रभूतम् अन्नं दातुं समर्था । एवं पत्नीकृपातः शिवः सुखेन जीवति !
|
|
|
|