हे चतुर, वद उत्तरम् !
|
न तस्यादिः न तस्यान्तो
मध्ये यस्तस्य तिष्ठति।
तवाप्यस्ति ममाप्यस्ति
यदि जानासि तद्वद॥
प्रथमः अर्थः - आदिः नास्ति, अन्त्यं नास्ति, मध्ये यः विद्यते तस्य समीपे भवति ।
मम अपि अस्ति, भवतः अपि अस्ति । जानाति चेत् उत्तरं वदतु ।
द्वितीयः अर्थः - नकारः आदौ अस्ति, नकारः अन्ते विद्यते । मध्ये यकारः विद्यते ।
तच्च वस्तु मम समीपे अपि विद्यते, भवतः समीपे अपि विद्यते । किं तत् ?
|
|
|
|
|
भिक्षो मांसनिषेवणं च कुरुषे किं तेन मद्यं विना मद्यं चापि तव प्रियं प्रियमहो वाराङ्गनाभिः सह ।
तासामर्थरुचिः कुतस्तव धनं द्यूतेन चौर्येण वा चौर्यद्यूतपरिग्रहोऽस्ति भवतः भ्रष्टस्य का वा गतिः ॥
कश्चन भिक्षुः (संन्यासी) मांसं खादन् आसीत् । तं दृष्ट्वा कश्चित् अपृच्छत् - ‘आर्य ! किं भवता मांसं सेव्यते ?’
भिक्षुः अवदत् - ‘आम् । किन्तु मांसेन सह मद्यम् अपि नास्ति किल इति मम खेदः’ इति ।
प्रष्टा आश्चर्येण अपृच्छत् - ‘किं मद्यसेवनाभ्यासः अपि अस्ति भवतः ?’ इति ।
‘आम् । यदि तत् वाराङ्गना काचित् दद्यात् तर्हि महान् सन्तोषः’ इति अवदत् भिक्षुः ।
‘वाराङ्गनार्थं धनम् आवश्यकं खलु ? तत् कथं प्राप्यते ?’ - प्रष्टा अपृच्छत् ।
‘तत् तु द्यूतेन चौर्येण वा प्राप्यते’ - इति शान्ततया अवदत् भिक्षुः ।
‘भिक्षुणा सता भवता मांसं मद्यं च सेव्यते । वाराङ्गना उपगम्यते । द्यूतं चौर्यं चापि क्रियते ! किम् एतत् सर्वम् !’ इति आश्चर्येण पृष्टवान् प्रष्टा ।
तदा भिक्षुः खेदेन अवदत् - ‘यदि भ्रष्टता प्राप्यते तर्हि एवमेव अधोगतिः भवति क्रमशः । सकृत् भ्रष्टस्य अधःपतनं सहजम्’ इति ।
|
|
|
|